________________
त्रिषष्टिशलाकापुरुषचरिते ॥२५॥
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
घोरैर्गदाप्रहरणप्रहारैरतिमूर्छिताः । अञ्चलान् व्यजनीकृत्य केऽप्यवीज्यन्त बन्धुभिः ।। ३३१ ।। वल्लभाभिः पयस्कुम्भहारिणीभिः पिपासिताः । केऽप्यम्भोऽनुपर्दिनीभिरपाय्यन्त मुहर्मुहुः ।। ३३२ ।। पश्यन्तीनां प्रेयसीनामपि केऽप्यमरीजनैः । अयं मेऽयं ममेशस्तान् सोत्कण्ठमिति वव्रिरे ।। ३३३ ।। आदाय कोऽप्यरेमौलि नृत्यति स्म महाभुजः । तत्स्पर्धयेव तद्वैरिकबन्धोऽपि ननर्त च ।। ३३४ ॥ प्रथमस्यन्दनाद्भग्रात् कोऽपि च स्यन्दनान्तरम् । समुत्पत्य ययौ वृक्षादिव वृक्षान्तरं कपिः ।। ३३५ ॥ कोऽपि युद्धवा चिरतरं निष्ठितास्त्रो महाभटः । स्वकेनैव शिरस्केन प्रहत्यामारयत् परम् ।।३३६ ॥ परिक्षीणेशु शस्त्रेषु निखिलेष्वपि केचन । दोर्दण्डाभ्यां युयुधिरे दन्ताभ्यामिव दन्तिनः ।। ३३७ ।। अस्त्रैः शस्त्रैर्मायया च सैन्ययोर्युध्यमानयोः । किञ्चिदूनो व्यतीयाय मास एको द्वयोरपि ।। ३३८ ।। सैन्यैः श्रीविजयस्याथ पवनैरिव पादपाः । अभज्यन्ताशनिघोषकुमारा मारपीडिताः ।।३३९ ।। अथाशनिमिवोद्यम्याशनिघोषो महागदाम् । कुमारांस्तर्जयन भग्नान् भक्ष्यन्नपि च विद्विषः ।। ३४० ॥ वराहः पल्वलमिव समुद्रमिव मन्दरः । विशिष्टविद्यादोर्वीर्योऽगाहिष्ट द्विषतां बलम् ॥३४१ ॥ मक्षु तेनाप्यभज्यन्त सूनवोऽमिततेजसः । कृते प्रतिकृतं सद्यः कुर्वन्ति हि मनस्विनः ।। ३४२ ॥ सुताराभ्रातृजान् भग्नान् वीक्ष्य श्रीविजयो नृपः । युद्धे स्वयमढौकिष्ट तिष्ठ तिष्ठेत्यरि ब्रुवन् ॥३४३ ॥ अथ द्वावपि गर्जन्तौ तर्जन्तौ च परस्परम् । शस्त्रशक्तिं दर्शयन्तौ विद्याशक्तिं च तादृशीम् ॥३४४ ॥
अशनिघोषस्य पराजयः ।
॥२५॥
१ तृषिताः । २ अनुपदं गच्छन्तीभिः । ३ शीर्षरहितो देहः कबन्धः । ४ शस्त्ररहितः । ५ शिरस्त्राणेन । ६ प्रतीकारम् ।