________________
त्रिषष्टिशलाकापुरुषचरिते IR२॥
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
तव भार्यां स्वसारं मे सुतारामपहृत्य सः । जीविष्यति कियन्नामाशनिघोषो नराधमः ।। २९४ ।।
॥युग्मम् ।। ततश्च शस्त्रावरणीं बन्धनी मोचनीमपि । विद्यां श्रीविजयायादादर्ककीर्तिसुतः स्वयम् ।।२९५ ।। रश्मिवेगामितवेगरविवेगार्ककीर्तयः । भानुवेगादित्ययशोभानुचित्ररथा अपि ।। २९६ ॥ अर्कप्रभोऽथार्करथो रवितेजाः प्रभाकरः । तथा किरणवेगोऽपि सहस्रकिरणोऽपि च ।। २९७ ।। इत्यादीनां स्वपुत्राणां शतपञ्चशतीमथ । समं त्रैपृष्ठिना वीरप्रष्ठेन पृतनावृतान् ।। २९८ ॥ पुर्यां चमरचञ्चायां तस्मादशनिघोषतः । सद्यः सुतारामाहतु प्राहिणोदहितान्तकः ।। २९९ ।।
॥चतुर्भिः कलापकम् ।। ततो विद्याधरबलच्छन्नाशेषनभस्तलः । दिवि केतुशतानीवोद्भावयन् सुभटायुधैः । ३०० ॥ प्रभूतहयहेषाभिर्हेषयन् भास्वतो हयान् । वितन्वानो गजैाग्नि मेघमालामिवापराम् ॥३०१ ।। विमानैर्दर्शयन् दीप्रैरानौत्पातिकानिव । जगाम चमरचञ्चा त्रिपृष्ठतनयः क्षणात् ॥३०२ ।।
॥त्रिभिर्विशेषकम् ॥ तं चाधिविद्यमशनिघोषं ज्ञात्वार्ककीर्तिसूः । सहस्ररश्मिना साधं सूनुनानूनशक्तिना ॥३०३ ।। परविद्याच्छेदकरी महाज्वालाभिधायिकाम् । विद्यां स्वयं साधयिन्तुं हिमवन्तं गिरिं ययौ ।। ३०४ ।।
।युग्मम् ॥ १ वीरेषु प्रष्ठेन श्रेष्ठेन । २ सेनासहितान् । ३ शत्रुनाशकः ।
SHRISHASSASSISTRATA
अशनिघोषस्य पराजयः ।
।। २२ ॥