________________
पञ्चमं पर्व
त्रिषष्टिशलाका
पुरुषचरिते
प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
IR३॥
स तत्र च जयन्तस्य महर्षेः प्रतिमाजुषः । तथैव धरणेन्द्रस्य पादमूलेऽतिपावने ॥३०५ ।। स्थितो मासिकभक्तेन प्रतिमा साप्तरात्रिकीम् । समुद्वहन् प्रववृते विद्यासाधनकर्मणि ।। ३०६ ॥
॥युग्मम् ।। सहस्ररश्मिः पितरं ररक्ष च तथास्थितम् । एवं च तिष्ठतोर्मासः किञ्चिदूनस्तयोरभूत् ।। ३०७ ।। इतश्च चमरचञ्चाबहिर्देशे कृतस्थितिः । प्रैषीदशनिघोषाय दूतं श्रीविजयो नृपः ।। ३०८ ॥ दूतो गत्वाथ निःशङ्कोऽशनिघोषमभाषत । धिग्घ्रीकरमिदं कर्म काकेनेव त्वया कृतम् ।।३०९ ।। धैर्यवीर्यविहीनानां छलमेव हि पौरुषम् । तद्वतामद्य धुर्योऽसि देवीमपहरंस्तथा ॥३१० ।। प्रतारिणी श्रीविजये विद्यां स्फोरयतस्तदा । प्रेक्षापूर्वककारित्वमहो ते श्मश्रुधारिणः ॥३११ ॥ ज्ञातस्त्वया श्रीविजयः प्रतापतपनो न किम् । निष्प्रतापे त्वादृशानां छलानि प्रभवन्ति हि ।।३१२ ।। स मोघीत्य तां विद्यामिहायासीद्यथा तथा । सुतारां नेष्यति बलात्तद्धीमन् स्वयमर्पय ॥३१३ ॥ स्वयमर्पयतो देवी प्रणिपातपुरःसरम् । त्वज्जीवितस्य कुशलं कीनांशः प्रगुणोऽन्यथा ॥३१४ ॥ बभाषेऽशनिघोषोऽपि घननिर्घोषघोरगीः । साध्वहो दूत दृष्टोऽसि धृष्टो नेदृक् क्वचिन्मया ॥३१५ ॥ यद्यत्रागाच्छ्रीविजयस्तत् किं तेन तपस्विना । सुमेरुमपि गच्छन्ति खगाः किं तेषु पौरुषम् ॥ ३१६ ।। ममैकयनलेशेन नष्टशक्तिः स यास्यति । न वालुकादेवकुलं सहते सरितो रयम् ।।३१७ ॥ पथा यथागतेनैव स प्रयातु निजौकसि । सुतारां याचमानस्तु प्रयास्यति यमौकसि ।।३१८ ॥ १ ह्रीकर लज्जाकरमित्यर्थः । २ छलवताम् । ३ विफलीकृत्य । ४ यमः । ५ वेगम् ।
अशनिघोषस्य पराजयः ।
॥२३॥