________________
त्रिषष्टि
शलाकापुरुषचरिते
॥२१॥
अरे रे न भवस्येष हन्वस्त्वामुद्वहायुधम् । आवां विद्याधरपतेः पत्ती ह्यमिततेजसः ॥ २८० ॥ एवमाक्षिप्य कृष्टासी कृष्णाही इव वार्तिकौ । आवां नरजघन्यं तं जिघांसन्तावुपस्थितौ ।। २८१ ॥ ततः सुतारादेव्योक्तं युद्धेन युवयोरलम् । वनं ज्योतिर्वनं यातं तत्र श्रीविजयः प्रभुः ।। २८२ ॥ प्रतारण्या वञ्चयित्वा त्याज्यमानमसूनपि । निषेधतं श्रीविजयं तस्मिन् जीवामि जीवति ॥ २८३ ॥ द्रुतमावां तदादेशादिह त्वां समुपस्थितौ । विध्यापितश्चितावह्निरावाभ्यां मन्त्रितोदकैः ।। २८४ ॥ इयं प्रतारणी विद्या सुतारारूपधारिणी । वेतालवत्समुत्ताला साट्टहासा पलायत ।। २८५ ॥ हृतां सुतारां विज्ञाय विषसाद महीपतिः । चितानलादप्यधिकं प्रज्वलद्विरहानलः ॥ २८६ ॥ तं तावित्यूचतुः स्वामिन् मा ताम्य कुशली न सः । यतो न दूरे भवतो दैवस्येव क्व यास्यति ।। २८७ ।। तौ प्रणम्याथ राजानं जानुस्पृष्टमहीतलौ । गाढमभ्यर्थ्य वैताढ्यमात्मना सह निन्यतुः ॥ २८८ ॥ ततः सर्वाभिसारेणामिततेजाः क्षणादपि । अभ्युत्तस्थौ श्रीविजयं विजयो मूर्तिमानिव ॥ २८९ ॥ महत्या प्रतिपत्त्या तमासयित्वोचितासने । ससंभ्रमोऽमिततेजाः पप्रच्छागमकारणम् ।। २९० ॥ तौ च विद्याधरवरौ तस्मै श्रीविजयेरितौ । सुताराहरणोदन्तमाचख्यतुरशेषतः ।। २९१ ।। अथार्ककीर्तितनयो भृकुटीकुटिलालिकः । रुषारुणकपोलाक्षो निजगादेति भूपतिम् ॥ २९२ ॥ कण्डूयित्वा तुण्डेमिव तक्षकस्य फणाभृतः । सटामुष्टिमिवोत्पाट्य शयानस्य मृगद्विषः ।। २९३ ।। १ हन्तुमिच्छन्तौ । २ उन्मत्ता । ३ श्रीविजयेन प्रेरितौ । ४ ध्रुवः कौटित्येन वक्रमलिकं ललाटं यस्य सः । ५ मस्तकम् । ६ सटानां केसराणां मुष्टिम् ।
1
पञ्चमं पर्व
प्रथमः
सर्गः
श्री शान्तिनाथजिन
चरितम् ।
सुताराहरणम् ।
1139 11