________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२०॥
यावज्ज्वलितुमारेभे क्षणादप्यांशुशुक्षणिः । तावदाजग्मतुस्तत्र द्वौ विद्याधरपूरुषौ ।। २६६ ।। अभिमन्त्र्य तयोरेकः सिषेच पयसा चिताम् । प्रतारिण्यपि तत्कालं पलायिष्टाट्टहासकृत् ॥ २६७ ॥ क्व स ज्वलन उज्ज्वालः परासुः प्रेयसी क्व मे । कृताट्टहासा केयं च किमिदं दैवनाटकम् ॥ २६८ ॥ इति संचिन्तयन् स्वस्थः पुरःस्थौ तौ च पूरुषौ । सौम्याकृती किमिदमित्यपृच्छत् पृथिवीपतिः ।। २६९ ॥ प्रणम्य राजानमूचतुर्विनयोचितम् । विद्याधरपतेरावां पत्ती अमिततेजसः ।। २७० ।। पितापुत्रौ च संभिन्न श्रोतोदीपशिखाभिधौ । निर्गतौ स्वेच्छ्या तीर्थजिनबिम्बानि वन्दितुम् ।। २७१ ।। अत्रापतद्भ्यामावाभ्यामश्रवि श्रुतिदुःश्रवा । पशूनप्युत्कर्णयन्ती वागियं करुणाक्षरा ।। २७२ ।। हा श्रीविजय मत्प्राणनाथ भूनाथसेवित । हा बान्धवामिततेजस्तेजस्तुलितभास्कर ।। २७३ ।। हा वत्स विजयभद्र बलभद्रसमौजसा । हा सर्वदा संनिहितास्त्रिपृष्ठकुलदेवताः ।। २७४ ।। दुष्टविद्याधरादस्माद्धृकादिव कुरङ्गिकाम् । इमां सुतारां त्रायध्वं त्रायध्वमविलम्बितम् ।। २७५ ।। ॥ त्रिभिर्विशेषकम् ॥ स्वसारं स्वामिनो ज्ञात्वा ह्रियमाणां दुरात्मना । तां वाचमन्वगच्छाव शब्दपातिशराविव ।। २७६ ।। अचिरादप्यपश्याव सुतारां तरलेक्षणाम् । आत्तामशनिघोषेण पद्मिनीमिव दन्तिना ।। २७७ ।। ह्रियमाणां स्वामिजामि तामुपेक्षितुमक्षमौ । आबद्धभ्रकुटी वाचमवोचाव च वैरिणम् ॥ २७८ ॥ रे विद्यार्ध रहतका शनिघोष क्व यास्यसि । हृत्वा सुतारां चण्डालो देवताप्रतिमामिव ॥ २७९ ॥ १ अग्निः । २ श्रुता । ३ कर्णदुःश्रवा । ४ शब्दानुसारिणौ शरौ इव । ५ जामिः भगिनी । ६ रे दुष्टविद्याधर ।
पञ्चमं पर्व
प्रथमः
सर्गः
श्री शान्तिनाथजिन
चरितम् ।
सुताराहरणम् ।
1120 11