________________
त्रिषष्टिशलाकापुरुषचरिते |॥१९॥
| पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
तच्छ्रुत्वा हरिणं मुक्त्वा ववले स इलापतिः । अभियोगो हि योगाय क्षेमे सति विपश्चिताम् ।।२५३ ॥ भूमौ च लुठितां दृष्ट्वा तां निःसहशरीरिकाम् । मणिमन्त्रौषधिवरैरुपाचारीन्नरेश्वरः ।। २५४ ।। प्राग्दृष्टप्रत्ययमपि सर्वमप्यगदादिकम् । उपचारः खल इव तस्यामफलतां ययौ ।। २५५ ।। निमीलन्नेत्रनलिना विच्छायवदनच्छविः । कम्पमानोरुयुगला वेपमानपयोधरा ॥२५६ ॥ शिथिलीभूतसांगोपाङ्गसंध्यस्थिबन्धना । नृपतेः पश्यतोऽप्याशु कालधर्ममियाय सा ॥ २५७ ॥
॥युग्मम् ॥ परासुरिव निःसंज्ञः परासुमवलोक्य ताम् । पपात मूर्छितः पृथ्व्यां स पृथ्वीपतिपुङ्गवः ।। २५८ ॥ पुनर्व्यावृत्तचैतन्योऽभिषिक्तश्चन्दनद्रवैः । मूर्धाभिषिक्तमूर्धन्यो विललापैवमुच्चकैः ।। २५९ ।। ह हा दैवेन मुषितो नयता त्वां मनोरमे । त्वद्रूपैरेव हि प्राणैः प्राणितव्यं ममाभवत् ।। २६० ॥ त्वां विनैष जनः कान्ते शोकसंभारभारतः । जीणं गृहमिवाधारस्तम्भहीनं पतिष्यति ।। २६१ ।। मद्वल्लभां लोभयता वल्लभादेशतत्परः । काञ्चनेन कुरङ्गेण वञ्चितोऽस्मि ह हा जडः ॥२६२ ।। प्रत्यक्षं मे प्रियां दष्टुं तक्षकोऽपि हि न क्षमः । कुर्कुटाहिस्तु दूरेऽस्तु दैवं हि बलवत् परम् ॥२६३ ॥ ततोऽनुगन्तुं दयितां त्यजन् प्राणान् हुताशने । ऊनं प्रपूरयाम्यद्य दुर्दैवस्याभिसर्पतः ।।२६४ ॥ तया सह महीनाथः सद्यो विरचितां चिताम् । अलंचक्रे स्वयं धीरो रतिमन्दिरतल्पवत् ।।२६५ ।। १ अभियोगः परास्कन्दनम् । २ उपचारमकरोत् । ३ विनयः । ४ म्लानमुखकांतिः । ५ मृत्युमगच्छत् । ६ गतप्राणाम् । ७ मूर्धाभिषिक्तानां राज्ञां मूर्धन्यो मुकुटसमानः ।
सुताराहरणम् ।
।।१९ ॥