________________
त्रिषष्टिशलाका
पुरुषचरिते
॥१८॥
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
तदा च कपिलजीवोऽशनिघोषो विहायसा । विप्रतारणिकां विद्या साधयित्वा समापतत् ॥ २४१ ॥ रममाणां समं पत्या पतिवत्नी सुलोचनाम् । देवीं सुतारामैक्षिष्ट प्राग्जन्मगृहमेधिनीम् ।। २४२ ।।
॥युग्मम् ।। ततः प्राग्जन्मसंस्कारात् संबंधमविदन्नपि । चक्रेऽनुरागादुत्कण्ठा तस्यां स्वस्यामिव स्त्रियाम् ।। २४३ ।। विद्याबलाद्विचक्रे च प्लवमानं तयोः पुरः । दिव्यकन्दुकवद्धैम हरिणं नेत्रहारिणम् ॥ २४४ ॥ खुरैरथ विषाणाभ्यामिन्द्रनीलमयैरिव । नीलोत्पलविलासिभ्यां लोचनाभ्यां विराजितम् ।। १४५ ।। पीतधातुमिवोज्झन्तं देहभासातिपीतया । मण्डयन्तं नमः फालैः पादपातैश्च भूतलम् ॥ २४६ ।। दृष्ट्वा सुतारा देवी तमिति भर्तारमब्रवीत् । असौ क्रीडनकं मे स्यात्स्वामिन्नानीयतां मृगः ।। २४७ ॥
॥त्रिभिर्विशेषकम् ।। इत्युक्तः कान्तया राजान्वधावत तमणकम् । विश्लिष्टं वाहनमिव वायोज्युसमस्यदम् ।। २४८ ॥ क्वचिद्वक्रः क्वचिदृजुर्मूगः स सरिदोघवत् । मनागप्यस्खलन् दूरं निनाय जगतीपतिम् ।। २४९ ।। क्वापि दृश्यः क्वाप्यदृश्यः कदाप्युा कदापि खे । स मायादैवतमिव गृहीतुं न ह्यशक्यत ।।२५० ॥ दूरे गते श्रीविजयेऽशनिघोषः शनैस्ततः । अभिसृत्याहरद्देवीं वनदेवीमिवैककाम् ।। २५१ ।। ततः प्रतारणी विद्या तेनायुक्ता दुरात्मना । सुतारीभूय पूच्चक्रे दष्टाहं कुर्कुटाहिना ।। २५२ ॥ १ आगच्छत् । २ पतिरस्त्यस्या इत्यर्थे निपातः । ३ प्राग्जन्मपत्नीम्। ४ सौवर्णम् । ५ मृगम् । ६ वायुसमानवेगम् । ७ आकाशे । ८ प्रयुक्ता । ९ सुतरारूपं कृत्वा ।
सुतारा
हरणम् ।
॥ १८ ॥