________________
त्रिषष्टिशलाकापुरुषचरिते ॥१७॥
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
मन्त्रिणोऽथाब्रुवन् देव कार्यद्वयमिदं हि नः । यास्यति स्वामिनोऽनर्थः प्राणी च न विपत्स्यते ॥२२७ ॥ वैश्रवणस्य प्रतिमा देव राज्येऽभिषिच्यताम् । तां च त्वामिव सप्ताहं सर्वः सेविष्यते जनः ।। २२८ ॥ दिव्यशक्त्योपसर्गश्चेन्न स्यात्तदपि सुन्दरम् । स्याच्चेत्तदपि न प्राणिवधपापं भविष्यति ।। २२९ ।। युक्तमेतदिति प्रोच्य गतोऽस्मि जिनमन्दिरम् । दर्भसंस्तारके तस्मिन्नस्थां च कृतपौषधः ।। २३० ॥ नरेन्द्रवदवर्तन्त मूर्ती वैश्रवणस्य ते स्वाम्युदर्काय धीमन्तो यान्ति स्वाम्यन्तरेऽपि हि ।।२३१ ॥ सप्तमे च दिने प्राप्ते मध्याह्नेऽत्यूर्जिगर्जितः । दिव्युन्ननाम पर्जन्यः प्रलयाम्बुददारुणः ।। २३२ ॥ तस्मादम्भोधराद्घोराद्ब्रह्माण्ड स्फोटयन्निव । निपपाताशनिस्तस्मिन् यः राज्यधरीकृते ॥२३३ ।। यथा यक्षे तडित्पातस्तत्र नैमित्तिके तथा । रत्नादिवृष्टिरभवद्विहितान्तःपुरादिभिः ।। २३४ ॥ पत्तनं पद्मिनीखण्डमखण्डितमहर्द्धिकम् । दत्वा नैमित्तिकवरो व्यसृज्यत मयापि हि ।। २३५ ॥ मूर्ति वैश्रवणस्यापि दिव्यरत्नमयीं नवाम् । अकारयमहं सद्यो विपद्बन्धुः स मे यतः ॥ २३६ ॥ मद्विप्रशान्त्या तदमी पौरामात्यादयो मुदा । महोत्सवं विदधते सर्वोत्सवशिरोमणिम् ।। २३७ ।। इति श्रुत्वामिततेजाः सुतारां भगिनी निजाम् । वस्त्रालङ्कारदानेन पूजयामास संमदात् ।। २३८ ॥ सुताराश्रीविजययोः पार्वे कालं कमप्यथ । अतिवाह्यामिततेजाः स्वमेव नगरं ययौ ।। २३९ ।। अथ श्रीविजयो राजा देव्या सह सुतारया । वनं ज्योतिर्वनं नाम ययौ क्रीडाकुतूहलात् ॥ २४०॥ १ कुबेरस्य । २ कुशासने । ३ स्वामिहिताय । ४ अराज्यधरो राज्यधरः कृतो राज्यधरीकृतस्तस्मिन् । ५ हर्षात् । ६ उल्लंघ्य । ७ स्वकीयम् ।
नैमित्तिकवृत्तान्तकयनम् ।
॥१७॥