________________
त्रिषष्टिशलाकापुरुषचरिते
॥१६॥
*SHARASHT
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
आसच्च तगृहासन्नमेकं भूतगृहं महत् । तद्भूतैः क्रन्दितं तस्याः शुश्रुवे कर्णदुःश्रवम् ॥ २१२ ॥ उत्पन्नकरुणैस्तैश्च जगदे ब्राह्मणीति सा । मा रोदीर्भव सुस्था त्वं त्वत्पुत्रो यातु रक्षसे ।। २१३ ।। राक्षसाग्रतोऽप्येनमानेष्यामस्तवान्तिके । लविष्यते न व्यवस्थां न चाप्येष मरिष्यति ।। २१४ ।। साधु है देवताः साधु यावदेवं जजल्प सा । आरक्षास्तावदजवन्निन्युराकृष्य तत्सुतम् ।। २१५ ॥ तद्दत्तं यावदादत्ते राक्षसस्तं द्विजात्मजम् । अपहृत्यानयन् भूतास्तावत्तन्मातुरन्तिके ।। २१६ ।। भीता भयानि पश्यन्ती ब्राह्मण्यपि तमात्मजम् । अन्तर्गिरिगुहं रक्षाकृते चिक्षेप तत्क्षणम् ॥२१७ ॥ तत्रस्थेन जनसे च जाग्रताजगरेण सः । तद्वदन्यदपि भवेन्न भावि क्वचिदन्यथा ।। २१८ ।। इदमौपयिकं तस्मात् सर्वैराचर्यतां तपः । निकाचितानामपि यत् कर्मणां तपसा क्षयः ।। २१९ ।। मन्त्री तुर्योऽप्यभाषिष्टोपरिष्टात् पोतनप्रभोः । ख्यातोऽनेन तडित्पातो न श्रीश्रीविजयस्य तु ।। २२० ।। तत् सप्ताहं पुरेऽमुष्मिन् कोऽप्यन्यः क्रियतां पतिः । पतिष्यत्यशनिस्तत्र दुरितं यातु तेन वः ।। २२१ ।। अथ नैमित्तिको हृष्टः प्राशंसदिति मन्त्रिणम् । मन्निमित्तज्ञानतोऽपि मतिज्ञानं तवाधिकम् ॥ २२२ ॥ अनर्थपरिहाराय कुरुध्वममुमाशु तत् । जिनपूजारतश्चैत्यस्थितो राजापि तिष्ठतु ।। २२३ ॥ मयाप्यवादि योऽप्यद्य नरो राज्येऽभिषिच्यते । चिन्तयामि कथं तस्य प्राणनाशं निरागसः ।। २२४ ।। आशकादाकमेः प्राणाः प्राणिनामतिदुस्त्यजाः । कथं वराकः पुंमात्रः पश्यतो मे विपत्स्यते ।। २२५ ॥ परेषां प्राणिनां प्राणत्राणैकपुरुषव्रताः । वयं हि घातयामोऽन्यं स्वप्राणितकृते कथम् ।। २२६ ॥ १ गिरेर्गुहायाम् । २ विद्युत् । ३ निरपराधिनः । ४ इन्द्रादारभ्य कीटपर्यन्तम् ।
नैमित्तिकवृत्तान्तकथनम् ।
॥१६॥
R A