________________
त्रिषष्टिशलाकापुरुषचरिते ॥१५॥
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
इत्युदित्वा स्थिते तस्मिस्तत्क्षणं राजरक्षणे । अभूवन् बुद्धिमन्तोऽपि व्याकुलाः कुलमन्त्रिणः ।। १९७ ॥ तत्रैकः सचिवोऽवोचद्विद्युत्पातोऽर्णवे न हि । सप्ताहं तत्र तत्स्वामी नावमारुह्य तिष्ठतु ॥ १९८ ।। द्वितीयोऽप्यब्रवीन्मन्त्री नेदं मे प्रतिभासते । पतन्तीं विद्युतं तत्र हन्त को वारयिष्यति ।। १९९ ॥ वैताठ्ये नावसर्पिण्यां विद्युत्पातो यतस्ततः । तस्योपरि गुहां गत्वा सप्ताहं वसतु प्रभुः ।। २०० ।। मन्त्र्यवोचत्तृतीयोऽपि मह्यं नादोऽपि रोचते । अवश्यभावी यो ह्यर्थो यत्र तत्र स नान्यथा ॥२०१॥ तथाह्यत्रैव भरते पुरे विजयनामनि । अवास्तीब्राह्मणवरो रुद्रसोमोऽभिधानतः ।। २०२ ।। अनपत्यस्य तस्याथ महद्भिरुपयाचितैः । पल्यां ज्वलनशिखायां शिखी नाम सुतोऽभवत् ।। २०३ ।। एकदा राक्षसस्तत्र कश्चिदप्यतिदारुणः । अधिष्ठितः क्रूरदेवेनागान्मर्त्यपलप्रियः ॥२०४ ।। मानुषाण्यन्वहं तत्र बहूनि प्रणिहन्ति सः । अल्पं तु ग्रसते शेषं फैलामिव समुज्झति ।। २०५ ।। राजा जजल्प तं साना किं मुधा हंसि नृन् बहून् ।घ्नन्ति व्याघ्रादयोऽप्यज्ञा जन्तुमेकं क्षुदौषधम् ।। २०६ ॥ दिने दिने त्वयाप्येकं ग्राह्यं ग्रासाय मानुषम् । मन्निर्णीतेन वारेण तत्तत्र स्वयमेष्यति ॥ २०७॥ तेनाभ्युपगतेऽर्थेऽस्मिन्नृपः स्वपुरवेष्मसु । मानुषाणां नामगोलांश्चक्रे वारकहेतवे ।।२०८ ॥ कृष्यमाणः करे गोलो यदा यस्य चटेत्तदा । प्रयाति पुररक्षायै भक्ष्यभूतः स रक्षसे ।। २०९ ।। तस्य ब्राह्मणपुत्रस्य निर्ययौ गोलकोऽन्यदा । तन्नाम वाचितं चान्तरन्तकेनेव पत्रकम् ॥२१०॥ तच्छ्रुत्वा तस्य माता तु रोदयन्ती पशूनपि । हा पुत्र नासि नासीति रुरोद करुणस्वरम् ।। २११ ।। १ समुद्रे । २ अवसत् । ३ मर्त्यपलं मनुष्यमांसं प्रियं यस्य । ४ उच्छिष्टमिव । ५ यमेन ।
नैमित्तिकवृत्तान्तकथनम् ।
॥ १५ ॥