________________
त्रिषष्टिशलाका
पुरुषचरिते 1198 11
अस्मादह्नः सप्तमेऽह्नि मध्याह्नसमये ध्वनन् । अशनिः पोतनपुरेश्वरोपरि पतिष्यति ।। १८२ ।। तया कटुकया वाचा विषेणेवातिघूर्णितः । पतिष्यति त्वयि किमित्युवाच सचिवाग्रणीः ।। १८३ ॥ नैमित्तिकोऽप्यभाषिष्ट मह्यं सचिव मा कुपः । शास्त्रदृष्टमिदं वच्मि भाव द्वेषोऽत्र मे न हि ।। १८४ ॥ तस्मिन् दिने मयि पुनर्वसुधारासहोदरा । वस्त्राभरणमाणिक्यस्वर्णवृष्टिः पतिष्यति ।। १८५ ।। मयाप्यभिहितो मन्त्री मास्मै कुप्य महामते । उपकारी प्रणिधिवद्यथार्थकथनादयम् ।। १८६ ।। नैमित्त परं ब्रूहि निमित्तं शिक्षितं कुतः । निराम्नायस्य वचसि श्रद्धा न प्रत्ययं विना ।। १८७ ॥ नैमित्तिकोऽप्यभाषिष्ट क्ष्माधव श्रूयतां तदा । बलदेवेन देवेन प्रव्रज्यां गृह्णता सह ।। १८८ ॥ उपादत्त परिव्रज्यां शाण्डिल्यो नाम मे पिता । तदनु प्राव्रजमहं पितृवात्सल्यमोहितः ।। १८९ ॥ निमित्तजातमखिलं तदेदं शिक्षितं मया । ज्ञानमव्यभिचारि स्यान्नान्यतो जिनशासनात् ।। १९० ।। लाभालाभौ सुखं दुःखं जीवितं मरणं जयः । पराजयश्चेति वेद्मि निमित्तमहमष्टधा ।। १९१ ।। संप्राप्तयौवनश्चाहं विहरन्नपरेऽहनि । अगमं पद्मिनीखण्डं नाम पत्तनमुत्तमम् ॥। १९२ ॥ हिरण्यलोमिका नाम मम तत्र पितृष्वसा । वसत्युद्यौवना चन्द्रयशास्तद्दुहितापि च ।। १९३ ।। तत्पूर्वी सा मे बालायापि हि बालिकाम् । दीक्षालक्षणविघ्नेन विवाहस्त्वभवन्न हि ।। १९४ ।। तां दृष्ट्वा सानुरागोऽहं हित्वा भारमिव व्रतम् । पर्यणैषं विवेको हि स्मरार्त्तानां कियच्चिरम् ? ।। १९५ ।। ज्ञात्वा स्वार्थं निमित्तेन महानर्थमिमं च ते । अत्रागममहं राजन् यज्जानासि कुरुष्व तत् ।। १९६ ॥ १ विद्युत् । २ हे अङ्ग । ३ दूतवत् । ४ कामपीडितानाम् ।
पञ्चमं पर्व प्रथमः सर्गः
श्री शान्तिनाथजिनचरितम् ।
नैमित्तिक
वृत्तान्त
कथनम् ।
।। १४ ।।