________________
त्रिषष्टि
शलाका
पुरुषचरिते
119 3 11
इतश्चान्ते त्रिपृष्ठस्य शुचा वैराग्यमुद्वहन् । राज्ये श्रीविजयं न्यस्य प्रवव्राजाचलो बलः ।। १६८ ।। नरेश्वरैरर्च्यमानो विजय श्रीस्वयंवरः । ततः श्रीविजयो विश्वं पित्र्यं राज्यमपालयत् ॥ १६९ ॥ अन्यदा चामितेजास्तत्पोतनपुरं पुरम् । सुताराश्रीविजययोर्दर्शनोत्कंठितो ययौ ॥ १७० ॥ नगरं तदपश्यच्चोत्पताकामञ्चतोरणम् । संजातानन्दसाम्राज्यमनुत्तरविमानवत् ।। १७१ ।। विशेषतो राजकुलं सहृष्टं वीक्ष्य विस्मितः । व्योमतोऽवातरत्तत्र समुद्र इव भास्करः ।। १७२ ॥ अभ्युत्तस्थौ दूरतस्तं दृष्ट्वा श्रीविजयो नृपः । पूजार्हातिथिमात्रेऽपि किं पुनस्तादृशेऽतिथौ ।। १७३ ।। परस्परं श्वशुर्यौ तौ मिथः स्वसृपती च तौ । सस्वजाते मिथो गाढं प्रौढप्रीतिसुधाहृदौ ।। १७४ ।। महार्घ्यसिंहासनयोर्निषेदतुरुभावपि । पूर्वपश्चिमयोरद्र्योः सूर्याचन्द्रमसाविव ।। १७५ ।। ततश्चामिततेजास्तं पप्रच्छ स्वच्छमानसः । नाधुना कौमुदी नाग्रहायणी ग्रीष्मको न च ॥ १७६ ॥ वसन्तो नापि नो पुत्रजन्मापि तव भूपते । पुरं केनोत्सवेनेदमुद्यदानन्दमीक्ष्यते ।। १७७ ।।
॥ युग्मम् ॥
ततः श्रीविजयोऽशंसदितः प्रागष्टमे दिने । एको नैमित्तिकः कश्चिदागादागामिवेदकः ।। १७८ ॥ याचितुं किमिहायासीः समाख्यातुं किमप्यथ । मयैवं सादरं पृष्ट इत्यभाषिष्ट स स्फुटम् ।। १७९ ।। जीवामो याचितेनैव वयं यद्यपि पार्थिव । तथापि याचितुं त्वत्तः साम्प्रतं न हि साम्प्रतम् ॥ १८० ॥ शक्यते न यदाख्यातुं तदाख्यातुमिहागमम् । आख्याते हि प्रतीकारो भवेद्धर्मादिनापि हि ।। १८१ ।। १ अतिथिमात्रेऽपि पूजा योग्या । २ श्यालौ । ३ भविष्यवेत्ता । ४ योग्यम् ।
पञ्चमं पर्व
प्रथमः
सर्गः
श्री शान्तिनाथजिन
चरितम् ।
नैमित्तिक
वृत्तान्त
कथनम् ।
1193 11