________________
त्रिषष्टिशलाकापुरुषचरिते ॥१२॥
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
ज्योतिःप्रभा त्रिपृष्ठोऽपि स्वपुत्रीमतिसुन्दरीम् । व्यवाहयदर्ककीर्तिपुत्रेणामिततेजसा ।। १५५ ॥ सुतारया श्रीविजयो भुङ्क्ते वैषयिकं सुखम् । समं च ज्योतिःप्रभयामिततेजा महाभुजः ।। १५६ ।। अन्यदा रथनूपुरचक्रवालाभिधे पुरे । विशाले बहिरुद्याने श्रिया सौमनसोपमे ।। १५७ ॥ त्रयोऽभिनन्दनजगन्नन्दनावग्निजट्यपि । ज्ञानादीनीव रत्नानि मूर्त्तानि समवासरन् ।। १५८ ॥
॥युग्मम् ।। ज्ञात्वार्ककीर्तिरायातं गुरुं गुरुगुरू अपि । एत्यावन्दिष्ट नोत्कण्ठा विलम्ब सहते क्वचित् ।। १५९ ।। अथाभिनन्दनमुनिर्विदधे धर्मदेशनाम् । महामोहहिमस्तोमविद्रावणरविप्रभाम् ॥१६०॥ तया देशनया चार्ककीर्तिर्वैराग्यभाग्भवे । रचिताअलिरित्यूचेऽभिनन्दनमहामुनिम् ॥ १६१ ॥ तावदागमयस्वेह यावतामितेजसम् । निजे राज्ये निवेश्याहमायामि व्रतहेतवे ।। १६२ ॥ न प्रमादो विधातव्य इति शिष्टो महर्षिणा । अर्ककीर्तिर्ययौ धाम प्रागनुस्यूतमानसः ॥१६३ ।। भूयो भूयः सनिर्बन्धमभ्यर्थ्यामिततेजसम् । राज्यमग्राहयदयं क्रमो जनकपुत्रयोः ।। १६४ ।। कृतनिष्क्रमणः सोऽथ नृपेणामिततेजसा । परिव्रज्यामुपादत्ताभिनन्दनमुनेः पुरः ॥ १६५ ॥ समं गुरुजनेनाथ विजहार वसुंधराम् । अर्ककीर्तिराजमुनिः शमराज्यं प्रपालयन् ।।१६६ ।। विद्याधरेन्द्रमुकुटोघृष्टपादाम्बुजासनः । तेजस्वी सोऽमिततेजाः पित्र्यां राज्यधुरां दधौ ।। १६७ ॥ १ पितुर्गुरु । २ महामोह एव हिमस्तोमस्तस्य विद्रावणे नाशने सूर्यप्रभासदृशीम् । ३ प्रतीक्षस्व । ४ आग्रहसहितम् ।
अर्ककीर्तेर्दीक्षा ।
॥ १२ ॥