________________
त्रिषष्टिशलाकापुरुषचरिते 11११॥
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्ति| नाथजिन| चरितम् ।
अर्ककीर्तेरभूत् पत्नी ज्योतिर्मालेति नामतः । दुहिता मेघवनस्य विद्याधरनरेशितुः ।। १४० ॥ च्युत्वा श्रीषणजीवोऽपि तदा सौधर्मकल्पतः । ज्योतिर्मालोदरे हंस इवाब्जे समवातरत् ।। १४१ ॥ ददर्श च तदा स्वप्ने प्रविशन्तं निजे मुखे । सहस्ररश्मिममिततेजसं घोतिताम्बरम् ।। १४२ ॥ समयेऽसूत सा सूनुं पुण्यलक्षणलक्षितम् । साम्राज्यभुवनाधारसुदृढस्तम्भमुच्चकैः ।। १४३ ।। दृष्टस्वप्नानुमानेन पितरौ तस्य चक्रतुः । नामामिततेजा इति मूाप्यमिततेजसः ।। १४४ ॥ न्यस्यार्ककीर्ती स्वं राज्यं प्रावाजीद्वह्निजट्यथ । चारणर्षिजगन्नन्दनाभिनन्दनयोः पुरः ।। १४५ ।। जीवोऽपि सत्यभामायाश्च्युत्वा सौधर्मकल्पतः । ज्योतिर्मालासूर्यकीयोः पुत्रीत्वेनोदपद्यत ।। १४६ ।। गर्भस्थायामिहापश्यत् सुतारां जननी निशाम् । इति तस्याः सुतारेति पितरौ नाम चक्रतुः ।। १४७ ।। स चाभिनन्दिताजीवश्युत्वा सौधर्मकल्पतः । त्रिपृष्ठः स्वयंप्रभयोः पुत्रत्वेनोदपद्यत ।। १४८ ।। यत्स्वप्ने साभिषेका श्रीर्गर्भस्थेऽत्राऽम्बयेक्षिता । तेन श्रीविजय इति तस्य नाम पिता व्यधात् ।। १४९ ।। स्वयंप्रभायास्तनयो द्वैतीयीकोऽप्यजायत । नामतो विजयभद्रो जयभद्रनिकेतनम् ।। १५० ।। स शिखिनन्दिताजीवश्युत्वा प्रथमकल्पतः । त्रिपृष्ठस्वयंप्रभयोः पुत्री ज्योतिःप्रभेत्यभूत् ।। १५१ ॥ सत्यभामापतिः पूर्व कपिलो नाम योऽभवत् । संसारं स चिरं भ्रान्त्वा तिर्यगादिषु योनिषु ।। १५२ ।। पुर्या चमरचञ्चायां विद्याधरनरेश्वरः । अजायताशनिघोष इति नाना हि विश्रुतः ।। १५३ ।।
॥युग्मम् ॥ अर्ककीर्तिर्दुहितरं सुतारां तारलोचनाम् । पृष्ठिना श्रीविजयनाम्ना स्वां पर्यणाययत् ।। १५४ ॥
श्रीषेणजीवस्य सौधर्मकल्पतः ज्योतिर्माबलोदरे अवतारः।
॥११॥