________________
त्रिषष्टि
शलाका
पुरुषचरिते
1190 11
%%
न ज्ञायते पिता माता स्वसा भ्राता परोऽपि वा । ह हा जन्मान्तरतिरस्करिण्यन्तरितैर्जनैः ।। १२६ ।। यावज्जीवमसौ जीवः संवेष्टयति देहजैः । रागद्वेषादिभिर्लालाजालकैरिव जालिकः ।। १२७ ।। रागं द्वेषं च मोहं च तत्परित्यज्य दूरतः । निर्वाणनगरद्वारं प्रव्रज्यां श्रयत द्रुतम् ॥ १२८ ॥ अथ तावूचतुर्मोहादस्माभिः श्वापदैरिव । धिग्धिक्किमिदमारब्धं भगिनीभोगहेतवे ।। १२९ ।। त्वं नौ पूर्वभवे माता गुरुरस्मिन् भवे पुनः । आवां येनोत्पथादस्मात् प्रबोध्य विनिवर्तितौ ॥ १३० ॥ इत्युक्त्वा मुक्तसन्नाहौ गुरोर्धर्मरुचेः पुरः । राज्ञां चतुर्भिः सहस्रैः समं जगृहतुर्व्रतम् ।। १३१ ।। तौ ततो ध्यानवह्निभ्यां प्लुष्टकर्माध्वकण्टकौ । लोकाग्रं जग्मतुर्दुर्गं सरलेनैव वर्त्मना ।। १३२ ॥ श्रीषेणप्रमुखास्तेऽपि चत्वारो युग्मधर्मिणः । विपद्य प्रथमे कल्पे देवेभूयं प्रपेदिरे ।। १३३ ।। इतश्चात्रैव भरते वैताढ्येऽस्ति नगोत्तमे । नगरं रथनूपुरचक्रवालमभिख्यया ।। १३४ ।। तत्राभूज्ज्वलनजी नाम विद्याधरेश्वरः । पुरन्दरानुज इव सनाथो विविधर्द्धिभिः ।। १३५ ।। तस्यार्ककीर्तिस्तनयः प्रौढार्क इव तेजसा । युवराजोऽभवद्वैरिराज्यलक्ष्मीस्वयंवरः ।। १३६ ॥ अन्वर्ककीर्ति समभूत् पुत्री तस्य स्वयंप्रभा । प्रभेव शशिनो विश्वनयनानन्ददायिनी ।। १३७ ॥ प्रथमो वासुदेवानां प्राजापत्योऽचलानुजः । त्रिपृष्ठः पोतनपुरेश्वरः परिणिनाय ताम् ॥ १३८ ॥ तदा च वह्निजटिने स हृष्टः प्रथमो हरिः । ददौ विद्याधरश्रेणिद्वयराज्यमखंडितम् ॥ १३९ ॥
१ जन्मान्तरमेव तिरस्करिणी तयानन्तरितैच्छन्नैः । २ उन्मार्गात् । ३ निवारितौ । ४ दग्धाः कर्माण्येव अध्वकण्टका मोक्षमार्गकण्टका याभ्यां तौ । ५ देवत्वम् । ६ सहितः । ७ अर्ककीर्तेः पश्चात् । ८ प्रजापतेः पुत्रः ।
पञ्चमं पर्व
प्रथमः सर्गः
श्री शान्तिनाथजिन
चरितम् ।
इन्दुषेण
बिन्दुषेणयो
प्रव्रज्या ।
।। १० ।।