________________
त्रिषष्टिशलाकापुरुषचरिते
॥९॥
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
एकदानुज्ञयार्यायास्तपःकर्म चतुर्थकम् । चक्रे त्रिरात्रे द्वे षष्टिश्चतुर्थानि स्युरत्र तु ॥ ११३ ॥ यथावत्पालयित्वा च दुस्तपं तत्तपोऽन्यदा । बहिः शरीरचिन्तार्थ गच्छन्ती राजवर्त्मनि ॥ ११४ ॥ कृते मदनमअर्या वेश्यायाः कामलंपटौ । युध्यमानौ महाबाहू राजपुत्रौ ददर्श सा ।। ११५ ।।
॥युग्मम् ॥ तौ दृष्ट्वाचिन्तयत् पद्माप्यस्याः किमपि सुभ्रवः । अहो सौभाग्यमेतौ यधुध्येते हन्त तत्कृते ।।११६ ।। तन्ममाप्यस्य तपसः प्रभावेण भवान्तरे । सौभाग्यमीदृशं भूयान्निदानमिति साकरोत् ।। ११७ ॥ अन्ते सानशनं कृत्वानालोचितनिदानिका । मृत्वा सौधर्मकल्पेऽभूदमरी विपुलर्द्धिका ।। ११८ ।। कनकीर्भवं भ्रान्त्वा भवे दानाद्यनन्तरे । कृत्वा विद्याधरेन्द्रस्त्वं नानाभूर्मणिकुण्डली ।। ११९ ।। भवं भ्रान्त्वा च कनकलतापद्मलते अपि । दानादिधर्म बहुधा विधाय प्राग्भवेषु च ।। १२० ॥ जम्बूद्वीपस्य भरतेऽभूतां रत्नपुरे पुरे । इन्दुषेणबिन्दुषेणौ श्रीषेणनृपतेः सुतौ ।। १२१ ।।
॥युग्मम् ॥ पद्माजीवोऽपि सौधर्माच्युत्वा तत्रैव भारते । वेश्या बभूव कौशाम्ब्यामनन्तमतिकाभिधा ।। १२२ ।। इन्दुषेणबिन्दुषेणावनन्तमतिकाकृते । अधुना युध्यमानौ स्तस्तौ देवरमणे वने ।। १२३ ।। श्रुतपूर्वभवः सोऽहं स्नेहादिह समागमम् । विनिवारयितुं युद्धात् प्राग्जन्मज्ञापनेन वाम् ।। १२४ ।। अहं वां प्राग्भवे माता गणिकेयं पुनः स्वसा । बुध्येथां सर्वमप्येवं संसारे मोहजृमितम् ।। १२५ ॥ १ अनालोचितं निदानं यया सा । २ पूर्वस्मिन् भवे दानादि कृत्वा । ३ युवाम् । ४ मोहविलसितम् ।
इन्दुषेण
बिन्दुषेणयोः पूर्वभवः ।
॥९
॥