________________
A
त्रिषष्टिशलाकापुरुषचरिते
॥८॥
S
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
तत्राद्रावुत्तरश्रेण्यामादित्याभाभिधे पुरे । राजा सुकुण्डलीत्यस्ति कुण्डलेन्द्र इव श्रिया ॥९९ ॥ तस्यास्त्यजितसेनेति दयिता शीलशालिनी । अहमस्मि तयोः पुत्रो नामतो मणिकुण्डली ।। १०० ।। अपरेधुस्ततः स्थानान्नभसा पक्षिराडिव । जिनेन्द्रं वन्दितुमगां नगरी पुण्डरीकिणीम् ॥१०१ ॥ तत्र चार्मितयशसं भगवन्तं जिनेश्वरम् । वन्दित्त्वा साञ्जलिपुटमश्रौष धर्मदेशनाम् ।। १०२ ॥ मया च देशनाप्रान्ते भगवन केन कर्मणा । विद्याधरोऽहमभवमिति पृष्टोऽब्रवीत् प्रभुः ।। १०३ ॥ पश्चिमे पुष्करवरद्वीपस्यार्धे महर्द्धिके । शीतोदाया महानद्या विशाले दक्षिणे तटे ॥ १०४ ॥ विजये सलिलावत्यां वीतशोकजनाकला । वीतशोकाभिधाना पूरस्ति स्वस्तिकवद्भुवः ।। १०५ ।।
॥युग्मम् ।। मीनध्वजो रूपधेयेनौजसा कुलिशध्वजः । तत्र रत्नध्वजो नाम चक्रवर्त्यभवत्पुरा ॥ १०६ ।। प्रधानभार्ये तस्योभे अभूतां शीलभूषणे । एका तत्र कनकश्रीद्धितीया हेममालिनी ।। १०७ ।। अङ्कस्थकल्पलतिकाद्वितयस्वप्नसूचिते । कनकश्रीर्दुहितरौ सुषुवे धीश्रियाविव ॥१०८ ॥ तयोश्च कनकलतेत्याख्यां पद्मलतेति च । चक्रतुर्मातापितरौ जन्मोत्सवसमोत्सवम् ।। १०९ ।। स्वप्ने पद्मलतालोकसूचिता हेममालिनी । पद्मा नाम प्रसुषुवे नन्दनां कुलनन्दनीम् ।। ११० ॥ प्राप्ताः कलाकलापं ता यौवनं चाथ पावनम् । विधात्रा श्रिय एकत्र त्रैलोक्यस्याहृता इव ॥ १११ ।। पद्माप्यजितसेनार्यासान्निध्येन विरागिणी । तत्पादान्ते परिव्रज्यामुपादत्त यथाविधि ।। ११२ ।। १ शेषनागः । २ तन्नामानम् । ३ शोकरहितैर्जनैाप्ता । ४ इन्द्रः ।
इन्दुषेणबिन्दुषेणयोः पूर्वभवः ।
SANSABHARASHRSHASHAN
॥८॥