________________
पञ्चमं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते
॥७॥
सर्गः श्रीशान्ति
नाथजिनचरितम् ।
तत्रोभावपि संनद्धावेककान्तारिरंसया । वृषभाविव दुर्दान्तौ युयुधाते महाभुजौ ।। ८५ ।। निषेधितुं तयोर्युद्धं नालमासीन्महीपतिः । प्रियसामा स हि सदा दण्डसाध्यास्तु दुर्मदाः ।। ८६ ॥ तां प्रवृत्ति तयोर्द्रष्टुं निरोद्धं चाक्षमो नृपः । सहाभिनन्दिताशिखिनन्दिताभ्यां विचार्य च ।। ८७ ।। प्राप्तकालमिदमिति ब्रुवाणः सरसीरुहम् । आघ्रात्तालपुटाविद्धं विपेदे च क्षणादपि ।। ८८ ॥
॥युग्मम् ॥ देव्यावपि तदाघ्राय तमेवाध्वानमीयतुः । न मनागपि जीवन्ति कुलनार्यः पतिं विना ॥ ८९ ॥ सत्यभामापि कपिलादन) चिन्तयन्त्यथ । तत्पद्ममाघ्राय ययौ तत्पथं शरणोज्झिता ।। ९०॥ अत्यन्तमार्दवान्मृत्वा ते चत्वारोऽपि जज्ञिरे । जम्बूद्वीपोत्तरकुरुक्षेत्रे युगलधर्मिणः ॥९१ ॥ अभूतां नृस्त्रियौ तत्र श्रीषेणोऽथाभिनन्दिता । ते शिखिनन्दितासत्यभामे अपि तथैव हि ॥ ९२ ।। ते च पल्यत्रयायुष्का गव्यूतत्रितयोच्छ्रिताः । अनुभूतसुखाद्वैताः सुखं कालमलच्यन् ।। ९३ ।। तयोश्चेन्दुषेणबिन्दुषेणयोर्युध्यमानयोः । आगादेको विमानस्थः कोऽपि विद्याधराग्रणीः ॥ ९४ ।। दैवस्येवानुकूलस्य प्रतीहारो निवारकः । स तयोरन्तरे स्थित्वा निजगादैवमुद्भुजः ।। ९५ ।। अज्ञात्वा भगिनीमेतां भारींयन्तौ कुमारको । किं युध्येथे विस्तरेण श्रूयतां वचनं मम ।। ९६ ।। जम्बूद्वीपस्यास्य महाविदेहेऽस्ति सुविस्तृतः । सीतानधुत्तरतटे विजयः पुष्कलावती ।। ९७ ॥ अभ्रंलिहोऽस्ति मेदिन्याः किरीट इव राजतः । तत्र विद्याधरावासो वैतान्यो नाम पर्वतः ॥ ९८ ॥ १ प्रियं सामवाक्यं यस्य सः । २ तालपुटनाम्ना विषेण व्याप्तम् ।३ अम्रियत । ४ रूप्यमयः ।।
इन्दुषेणबिन्दुषेणयोयुद्धम् ।
॥७॥