________________
त्रिषष्टिशलाका
पुरुषचरिते
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
I४॥
व्याख्यां समस्तशिष्याणां चकार कपिलोऽन्वहम् । निश्चितः सत्यकिस्तस्थौ तेन स्वेनेव सूनुना ।। ४० ।। भक्ति पितुरिवात्यन्तं सत्यकेः कपिलोऽकरोत् । किमेतस्मै करोमीति प्रीतो दध्यौ च सत्यकिः ।। ४१ ।। सत्यकर्जम्बुका नाम तदा भार्येदमब्रवीत् । यद्यप्यवहितोऽसि त्वं तथापि स्मार्यसे मया ॥ ४२ ।। देवकन्येव निःसीमरूपलावण्यशालिनी । विनीता हीमती क्षान्तिमार्दवार्जवशालिनी ॥ ४३ ।। मत्कुक्षिसंभवा तेऽसौ सत्यभामेति कन्यका । संप्राप्तयौवनं तस्या वरं मृगयसे न किम् ॥ ४४ ।। कन्यका वर्धते यस्य ऋणं वैरं रुजापि च । तस्य निद्रा कथं नामाचिन्तः शेते भवान् पुनः ॥ ४५ ॥ ऊचे सत्यकिरप्येवं सत्यं सत्यमिदं प्रिये । इयत्कालमहं नापं सत्यभामोचितं वरम् ॥४६ ।। अयं तु रूपसम्पन्नो गुणिनामग्रणीर्युवा । विनीतः कपिलो विप्रः सत्यभामोचितो वरः ॥ ४७ ।। आमेत्युक्ते जम्बुकया शुभे लने स सत्यकिः । सत्यभामाकपिलयोर्विवाहं विधिवद्व्यधात् ।। ४८ ।। भोगान्निमिया सत्यभामया बुभुजेऽन्वहम् । पूज्यमानः सत्यकिवत् स पौरैः सकले पुरे ।। ४९ ।। सत्यकेरपि पूज्योऽयमिति तस्मै ददौ जनः । विशिष्टं धनधान्यादि सर्वेष्वपि हि पर्वसु ॥ ५० ॥ एवं च वर्तमानः स वर्तमानद्विजोत्तमः । समृद्धः कपिलो जज्ञे धनैरपि गुणैरपि ॥ ५१ ॥ अन्यदा प्रावृषि निशि प्रेक्षणीयेक्षणाय सः । बहिर्जगाम सदनाच्चिरं तत्र तथा स्थितः ॥५२ ॥ निवृत्तस्यार्धमार्गेऽथ वेश्मने तस्य गच्छतः । सूचिभेद्यं तमः कुर्वन् ववर्षात्यन्तमम्बुदः ।। ५३ ।। विजनत्वात्तदानीं स नग्नीभूय स्ववाससी । प्रक्षिप्य कक्षान्तरगाद्वेश्मद्वारे च पर्यधात् ॥ ५४ ॥ १ लज्जावती । २ तथेत्युक्ते । ३ निभ्रान्त्या । ४ नाट्यविलोकनाय ।
कपिल
सत्यभामयोवृत्तम् ।
॥४
॥