________________
पञ्चमं पर्व
प्रथमः
त्रिषष्टिशलाकापुरुषचरिते
॥५॥
सर्गः श्रीशान्तिनाथजिनचरितम् ।
वृष्ट्या वस्त्राणि मद्भर्तुस्तिमितानीति मानिनी । सत्यभामान्यवस्त्राणि गृहीत्वा समुपास्थिता ।। ५५ ॥ मुग्धे विद्याप्रभावेण स्तिमिते मे न वाससी । कृतं तदन्यैर्वासोभिरित्यूचे कपिलः प्रियाम् ॥५६ ।। तस्य वासांस्यनार्द्राणि वपुरार्द्र च सर्वतः । सत्यभामा निर्दध्यौ च दध्यौ चेदं स्वचेतसि ।। ५७ ॥ विद्याशक्त्या स्ववासांसि यद्यरक्षदसौ जलात् । नारक्षत्तत्कथं स्वाङ्गं नूनं नग्नोऽयमाययौ ।। ५८ ।। अकुलीनस्ततो मन्ये वृत्तेनानेन मत्पतिः । मेधाबलादध्यगीष्ट कर्णश्रुत्या श्रुतीरपि ।। ५९ ॥ एवं च मन्यमाना सा तदाप्रभृति तत्र च । मन्दानुरागा समभूद् वृन्दानीतेव खेदिनी ॥६०॥ तदा च धरणिजटो दैवात् क्षीणधनोऽभवत् । आठ्यं च कपिलं श्रुत्वा स्वं समुद्धर्तुमाययौ ॥ ६१ ।।। पाघस्नानादिना तं च सच्चक्रे कपिलः स्वयम् । आराध्योऽतिथिमात्रोऽपि किं पुनः स पितातिथिः ।। ६२ ।। अथ पित्रा कृते स्नाने निर्मिते नित्यकर्मणि । भोजनावसरे प्राप्ते प्रोवाच कपिलः प्रियाम् ॥ ६३ ।। शरीरकारणं मेऽस्ति तत्प्रिये पितृहेतवे । विभिन्नं भोजनस्नानमुत्तमं प्रगुणीकुरु ।। ६४ ॥ पितुः पुत्रस्य च तयोर्दृष्ट्वाचरणमन्यथा । आशशङ्केऽधिकं सत्या कुलीना सा यतः स्वयम् ।। ६५ ।। कुलीनं श्वशुरं ज्ञात्वा चरितैरतिनिर्मलैः । आराधयज्जनकवगुरुवद्देववच्च सा ।। ६६ ॥ दत्वान्यदा ब्रह्महत्याशपथं रहसि स्वयम् । श्वशुरं परिपप्रच्छ महता विनयेन सा ।। ६७ ॥ युष्माकं किमसौ सूनुः शुद्धपक्षद्वयोद्भवः । अवरुद्धोद्भवः किं वा सत्यं ब्रूत प्रसीदत ।। ६८ ॥ ततश्च धरणिजटः समाचख्यौ यथातथम् । महात्मानः प्रकृत्यापि शपथच्छेदकातराः ।। ६९ ॥ १ आर्द्राणि । २ ददर्श । ३ समृद्धम् । ४ विपरीतोद्भवः ।
कपिल
सत्य
भामयोवृत्तम् ।
॥५॥