________________
त्रिषष्टिशलाका
पुरुषचरिते
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
॥३॥
तस्य चासीद्यशोभद्रा भद्राभक्तिः कुलोद्भवा । सधर्मचारिणी गेहलक्ष्मीरिव विहारिणी ॥ २६ ॥ तस्याः क्रमेण जज्ञाते द्वौ पुत्रौ कुलदीपकौ । ज्येष्ठो नाम्ना नन्दिभूतिः श्रीभूतिरिति चापरः ।। २७ ॥ तस्य च ब्राह्मणस्यासीत् कपिला नाम दासिका । तयापि च चिरं रेमे दुर्जया विषयाः खलु ।। २८ ॥ स्वच्छंद रममाणस्य क्रमयोगेन तस्य च । अजनिष्ट कपिलायां कपिलो नाम नन्दनः ।।२९ ॥ स तु द्विजो यशोभद्राकुक्षिजातावुभौ सुतौ । सांगान् वेदान् सरहस्यान् प्रह्नः स्वयमपाठयत् ॥३०॥ कपिलोऽप्यतिमेधावी तूष्णीकोऽप्यवधारयन् । वेदाब्धिपारगो जज्ञे प्रज्ञायाः किं न गोचरम् ।।३१ ॥ स प्रादुष्यद्वदुषीको निर्गत्य पितृवेश्मतः । यज्ञोपवीतद्वितयं कण्ठदेशे निधाय च ।।३२ ।। द्विजोत्तमोऽस्मीति गिरा ध्वनयन्निव डिडिमम् । देशान्तरेषु बभ्राम विदेशो विदुषां हि कः ॥ ३३ ॥
॥युग्मम् ।। भ्रमन् क्रमेण स प्राप तद्रलपुरपत्तनम् । पाण्डित्यं दर्शयंस्तत्र जगर्ज प्रावृडब्दवत् ।। ३४ ।। तत्र चाशेषपौराणामुपाघ्यायः कलानिधिः । अवात्सीत् सत्यकिर्नाम धीपात्रच्छात्रशोभितः ॥ ३५ ॥ कपिलः सत्यकेः पाठशालां गत्वा दिने दिने । पृच्छतां खण्डिकानां च संशयानन्तराच्छिदत् ॥३६॥ विस्मितः सत्यकिरपि तं पप्रच्छ कुतूहलात् । दुर्ज्ञानानि रहस्यानि शास्त्राणां मंत्रजातवित् ॥३७ ।। आचख्यौ कपिलस्तस्मै सविशेषाणि तानि तु । उपाध्यायधिया छात्रैः श्रद्दधानैर्निरीक्षितः ॥ ३८ ॥ शालायां सत्यकिश्चक्रे तं स्वकर्मधुरंधरम् ।युवराजमिव राजा क्व नाऽन्त्युज्वला गुणाः ॥३९ ।। १ अब्दो मेघः । २ धियां पात्रैः स्थानीत्रैः शोभितः । ३ छात्राणाम् ।
कपिलसत्यभामयोवृत्तम् ।
॥३
॥