________________
त्रिषष्टिशलाकापुरुषचरिते ॥२०३
चतुर्थं पर्व सप्तमः
सर्गः श्रीसनत्कुमारचक्रिचरितम् ।
28282828282828282828282828.
कफविप्रड्जल्लमलविष्टामर्षास्तथा परम् । सर्वमप्यौषधिरिति नामतः सप्त लब्धयः ॥३८७॥ अत्रान्तरे सुरपतिः समुद्दिश्य दिवौक सः । हदि जातचमत्कारश्चकारेत्यस्य वर्णनम् ॥ ३८८॥ चक्रवर्तिश्रियं त्यक्त्वा प्रज्वलत्तृणपूलवत् । अहो ! सनत्कुमारोऽयं तप्यते दुस्तपं तपः ॥ ३८९ ॥ तपोमाहात्म्यलब्धासु सर्वास्वपि हि लब्धिषु । शरीरनिरपेक्षोऽयं स्वरोगान्न चिकित्सति ॥ ३९० ॥ अश्रद्दधानो तद्वाक्यं वैद्यरूपधरौ सुरौ । विजयो वैजयन्तश्च तत्समीपमुपेयतुः ॥ ३९१ ॥ ऊचतुश्च महाभाग ! किं रोगैः परिताम्यसि ? । वैद्यावावां चिकित्सावो विश्वं स्वैरेव भेषजैः॥ ३९२ ॥ यदि त्वमर्नुजानासि रोगग्रस्तशरीरकः । तदह्नाय निगृह्णीवो रोगानुपचितांस्तव ॥३९३ ॥ ततः सनत्कुमारोऽपि प्रत्यूचे भोश्चिकित्सकौ ! । द्विविधा देहिनां रोगा द्रव्यतो भावतोऽपि च ॥ ३९४ ॥ क्रोध-मान-माया-लोभा भावरोगाः शरीरिणाम् । जन्मान्तरसहस्रानुगामिनोऽत्यन्तदुःखदाः ॥३९५ ॥ ताश्चिकित्सितुमीशौ चेद् युवां तर्हि चिकित्सतम् । अथो चिकित्सथो द्रव्यरोगास्तद् बत ! पश्यतम् ॥ ३९६॥ ततोऽङ्गली गलत्पामां शीर्णा स्वकफविपुषा । लिप्त्वा शुल्वं रसेनेव द्राक् सुवर्णीचकार सः ॥३९७ ॥ ततस्तामङ्गुली स्वर्णशलाकामिव भास्वतीम् । आलोक्य पादयोस्तस्य पेततुः प्रोचतुश्च तौ ॥ ३९८ ॥ निरूपयिषू त्वद्रूपं यौ त्वामायातपूर्विणौ । तावेव त्रिदशावावां संप्रत्यपि समागतौ ॥ ३९९ ॥ सिद्धलब्धिरपि व्याधिबाधां सोढा तपस्यति । सनत्कुमारो भगवानितीन्द्रस्त्वामवर्णयत् ॥ ४०० ॥
१ आज्ञापयसि । २ वृद्धान् । ३ समर्थौ । ४ स्वश्लेष्मबिन्दुना । ५ ताम्रम्।
128282828282828282828282828
अङ्गुलेः सुवर्णीकरणम्।
॥२०३॥