________________
चतुर्थं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥२०२॥
सप्तमः
सर्गः श्रीसनत्कुमारचक्रिचरितम्।
128282828282828282828282828
बहिः कथञ्चिद् यद्येतत् प्ररोच्येत तथापि हि । नैयग्रोधं फलमिव मध्ये कृमिकुलाकुलम् ॥ ३७३ ॥ रुजा लुम्पति कायस्य तत्कालं रूपसंपदम् । महासरोवरस्येव वारि सेवालवल्लरी ॥ ३७४ ॥ शरीरं श्रथते नाऽऽशा रूपं याति न पापधीः । जरा स्फुरति न ज्ञानं धिक् स्वरूपं शरीरिणाम् ॥३७५॥ रूपं लवणिमा कान्तिः शरीरं द्रविणान्यपि । संसारे तरलं सर्वं कुशाग्रजलबिन्दुवत् ॥ ३७६ ॥ अद्यश्वीनविनाशस्य शरीरस्य शरीरिणाम् । सकामनिर्जरासारं तप एव महत्फलम् ॥ ३७७ ॥ इति संजातवैराग्यभावनः पृथिवीपतिः । प्रव्रज्यां स्वयमादित्सुः सुतं राज्ये न्यवीविशत् ॥ ३७८ ॥ गत्वोद्याने सविनयं विनयन्धरसूरितः । सर्वसावद्यविरतिप्रधानं सोऽग्रहीत् तपः ॥ ३७९ ॥ महाव्रतधरस्यास्य दधानस्योत्तरान् गुणान् । ग्रामाद् ग्रामं विहरतः समतैकाग्रचेतसः ॥ ३८०॥ गाढानुरागबन्धेन सर्वं प्रकृतिमण्डलम् । पृष्ठतोऽगात् करिकुलं महायूथपतेरिव ॥३८१॥॥ युग्मम् ॥ निःकषायमुदासीनं निर्ममं निष्परिग्रहम् । तं पर्युपास्य षण्मासान् कथञ्चित् तन्यवर्तत ॥ ३८२ ॥ कृतषष्ठः पारणाय प्रविष्टो गोचरेऽन्यदा । लेभे चीनककूरं स साजातक्रमभुक्त च ॥३८३॥ भूयोऽपि षष्ठभक्तान्ते तथैव कृतपारणात् । व्याधयोऽस्य ववृधिरे संपूर्णादिव दोहदात् ॥ ३८४ ॥ कच्छूशोषज्वरश्वासारुचिकुक्ष्यक्षिवेदनाः । सप्ताधिसेहे पुण्यात्मा सप्त वर्षशतानि सः ॥ ३८५ ॥ दुःसहान् सहमानस्य तस्याशेषपरीषहान् । उपेयनिरपेक्षस्य समपद्यन्त लब्धयः ॥ ३८६ ॥ १ अभिप्रेतं भवेत्। २ अद्य वा श्वो वा अद्यश्वीनः । ३ समतयैकाग्रं चेतो यस्य तस्य । ४ अजायास्तक्रेण सहितम् । ५ उपेयम् फलम् ।
28282828282828282828282828
दीक्षा।
। २०२॥