________________
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थं पर्व सप्तमः
सर्गः श्रीसनत्कुमारचक्रिचरितम् ।
॥२०१ला
182828282828282828282828282
ऊचे सनत्कुमारोऽपि स्मितविच्छुरिताधरः । इयं हि कियती कान्तिरङ्गेऽभ्यङ्गतरङ्गिते ? ॥३५९ ॥ इतो भूत्वा प्रतीक्षेथां क्षणमात्रं द्विजोत्तमौ ! । यावन्निवर्त्यतेऽस्माभिरेष मज्जनकक्षणः ॥३६०॥ विचित्ररचनाकल्यं भूरिभूषणभूषितम् । रूपं पुनर्निरीक्षेथां सरत्नमिव काञ्चनम् ॥३६१॥ ततोऽवनिपतिः स्नात्वा कल्पिताकल्पभूषणः । साडम्बरः सदोऽध्यास्ताम्बररत्नमिवाम्बरम् ॥ ३६२ ॥ अनुज्ञातौ ततो विप्रौ पुरोभूय महीपतेः । निदध्यतुश्च तद्रूपं विषण्णौ दध्यतुश्च तौ ॥ ३६३ ॥ क्व तद् रूपं क्व सा कान्तिः क्व तल्लावण्यमप्यगात् । क्षणेनाप्यस्य मानां क्षणिकं सर्वमेव हि ॥३६४॥ नृपः प्रोवाच तौ कस्माद् दृष्ट्वा मां मुदितौ पुरा ? । कस्मादकस्मादधुना विषादमलिनाननौ ? ॥३६५ ॥ ततस्तावूचतुरिदं सुधामधुरया गिरा । महाभाग ! सुरावावां सौधर्मस्वर्गवासिनौ ॥३६६ ॥ मध्येसुरसभं शक्रश्चक्रे त्वद्रूपवर्णनम् । अश्रद्दधानौ तद् द्रष्टुं मर्त्यमूर्त्याऽऽगताविह ॥ ३६७ ॥ शक्रेण वर्णितं यादृग्तादृगेव पुरेक्षितम् । रूपं नृप ! तवेदानीमन्यादृशमजायत ॥ ३६८ ॥ अधुना व्याधिभिरयं कान्तिसर्वस्वतस्करैः । देहः समन्तादाक्रान्तो निःश्वासैरिव दर्पणः ॥३६९॥ यथार्थमभिधायेति द्राक् तिरोहितयोस्तयोः । विच्छायं स्वं नृपोऽपश्यद्धिमग्रस्तमिव द्रुमम् ॥ ३७० ॥ सोऽचिन्तयच्च धिगिदं सदा गदपदं वपुः । मुधैव मुग्धाः कुर्वन्ति तन्मूर्छा तुच्छबुद्धयः ॥ ३७१ ॥ शरीरमन्तरुत्पन्नाधिभिर्विविधैरिदम् । दीर्यते दारुणैर्दारू दारुकीटगणैरिव ॥ ३७२ ॥
१ विचित्ररचनया सज्जीभूतम् । २ कल्पितानि नेपथ्यानि च भूषणानि च यस्य । ३ सभाम् । ४ सूर्यः । ५ अवलो- कयाञ्चक्रतुः । ६ चिन्तयामासतः । ७ रोगस्थानम् । ८ काष्ठकीटसमूहैः ॥
282828282828282828282828286
रुपमदः।
॥२०१॥