________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ २०० ॥
'RE DE DE DE REI
DEDEDER K
ततस्तौ विप्ररूपेण रूपान्वेषणहेतवे । प्रासादद्वारि नृपतेस्तस्थतुर्द्वाःस्थसन्निधौ ॥ ३४५॥ आसीत् सनत्कुमारोऽपि तदा प्रारब्धमज्जनः । मुक्तनिःशेषनेपथ्यः सर्वाङ्गाभ्यङ्गमुद्वहन् ॥ ३४६ ॥ द्वारस्थौ द्वारपालेन द्विजाती तौ निवेदितौ । न्यायवर्ती चक्रवर्ती तदानीमप्यवीविशत् ॥ ३४७ ॥ सनत्कुमारमालोक्य विस्मयस्मेरमानसौ । धूनयामासतुमौलिं चिन्तयामासतुश्च तौ ॥ ३४८ ॥ ललाटपट्टः पर्यस्ताष्टमीरजनिजानिकः । नेत्रे कर्णान्तविश्रान्ते जितनीलोत्पलत्विषी ॥ ३४९ ॥ दन्तच्छदौ पराभूतपक्व बिम्बफलच्छवी । निरस्तशुक्तिकौ कर्णौ कण्ठोऽयं पाञ्चजन्यजित् ॥ ३५० ॥ करिराजकराकारतिस्कारकरौ भुजौ । स्वर्णशैलशिलालक्ष्मीविलुण्टाकमुरस्थलम् ॥ ३५१ ॥ मध्यभागो मृगारातिकिशोरोदरसोदरः । किमन्यदस्य सर्वाङ्गलक्ष्मीर्वाचां न गोचरा ॥ ३५२ ॥ अहो ! कोऽप्यस्य लावण्यसरित्पूरो निरर्गलः । येनाभ्यङ्गं न जानीमो ज्योत्स्नयोडुप्रभामिव ॥ ३५३ ॥ यथेन्द्रो वर्णयामास तथेदं भाति नान्यथा । मिथ्या न खलु भाषन्ते महात्मानः कदाचन ॥ ३५४ ॥ किंनिमित्तमिहायातौ भवन्तौ द्विजसत्तमौ ? । इत्थं सनत्कुमारेण पृष्टौ तावेवमूचतुः ॥ ३५५ ॥ लोकोत्तरचमत्कारकारकं सचराचरे । भुवने भवतो रूपं नरशार्दुल ! गीयते ॥ ३५६ ॥ दूतोऽपि तदाकर्ण्य तरङ्गितकुतूहलौ । विलोकयितुमायातावावामवनिवासव ! ॥ ३५७ ॥ वर्ण्यमानं यथा लोके शुश्रुवेऽस्माभिरद्भुतम् । रूपं नृप ! ततोऽप्येतत् सविशेषं निरीक्ष्यते ॥ ३५८ ॥
१ प्रारब्धं मज्जनं स्नानं येन । २ द्विजौ । ३ रजनिजानिश्चन्द्रः । ४ विलुण्टाकचौरः । ५ तारकप्रभाम् । ६ अवनिपते ।
CREDEREREREREDEREREDERERERER
चतुर्थं प
सप्तमः
सर्गः
श्रीसनत्कुमारचक्रिचरितम् ।
विप्ररुपेण देवागमनम् ।
॥ २०० ॥