________________
त्रिषष्टिशलाका
पुरुषचरिते
चतुर्थं पर्व सप्तमः
सर्गः श्रीसनत्कुमारचक्रिचरितम् ।
॥१९९॥
828282828282828282828282828
स्वपुरीवद् धनापूर्णं नगरं हस्तिनापुरम् । कृत्वा कुबेरोऽथ ययौ विसृष्टश्चक्रवर्तिना ॥ ३३२ ॥ राजभिर्बद्धमुकुटैः सामन्तैरपरैरपि । तस्याभिषेको विदधे स्वसंपद्वल्लिसारणिः ॥ ३३३ ॥ अभिषेकोत्सवात् तस्याभूत् पुरं हस्तिनापुरम् । द्वादशाब्दी दण्डशुल्कभटवेशादिवर्जितम् ॥३३४ ॥ स चक्री पालयामास पितेव विधिवत् प्रजाः । महाऋद्धिः शक्र इव करादिभिरपीडयन् ॥ ३३५ ॥ न समोऽस्य प्रतापेन यथा कश्चिदजायत । यथैवाप्रतिरूपेण रूपेणापि जगत्त्रये ॥ ३३६ ॥ तदानीं च सुधर्मायां रत्नसिंहासनस्थितः । शक्रः सौदामनीं नाम नाटकं नाटयन्नभूत् ॥३३७ ॥ अनवद्येन रूपेण सर्वरूपाभिभाविना । विस्मापयन् दिविषदस्तत्पर्षदि निषेदुषः ॥ ३३८ ॥ देहप्रभाभिस्तिरयंस्तेजांस्यखिलनाकिनाम् । ऐशानकल्पादभ्यागात् संगमस्तत्र चामरः ॥ ३३९ ॥
॥युग्मम् ॥ गतेऽथ तस्मिन् पप्रच्छुः शक्रमेवं दिवौकसः । अस्य लोकोत्तरं तेजो रूपं चानुपमं कथम् ? ॥३४०॥ शक्रोऽप्यशंसदेतेन प्राग्जन्मनि कृतं तपः । आचामाम्लवर्धमानं तेनेमे रूपतेजसी ॥३४१॥ किमन्योऽपीदृशः कोऽपि विद्यतेऽत्र जगत्त्रये । इति भूयोऽमरैः पृष्टः सौधर्मेन्द्रोऽब्रवीदिदम् ॥३४२ ॥ राज्ञः सनत्कुमारस्य कुरुवंशशिरोमणेः । यद्रुपं न तदन्यत्र देवेषु मनुजेषु च ॥ ३४३ ॥ इति प्रशंसां रूपस्याश्रद्दधानावुभौ सुरौ । विजयो वैजयन्तश्च पृथिव्यामवतेरतुः ॥३४४ ॥ १ सर्वरूपतिरस्कारिणा । २ निषण्णान् । ३ आच्छादयन् ।
888888888882828282828282828
राज्यपालनम्।
इन्द्रप्रशंसा।
॥१९९॥