________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १९८ ॥
REDERERE DERY
GREREREREA
हारं च शशिमालां चातपत्रं चामरे अपि । मुकुटं कुण्डलयुगं देवदूष्यद्वयीमपि ॥ ३१८ ॥ सिंहासनं पादुके च पादपीठं च भासुरम् । सद्यः सनत्कुमारार्थं कुबेरस्यार्पयद्धरिः ॥ ३९९ ॥ तिलोत्तमोर्वशीमेनारम्भातुम्बरुनारदान् । अन्यानपीन्द्रस्तदभिषेकायाशु समादिशत् ॥ ३२० ॥ ततः कुबेरस्तैः सार्धमेत्य नागपुरे वरे । आख्यत् सनत्कुमाराय तमादेशं दिवस्पते: ॥ ३२९ ॥ सनत्कुमारानुज्ञातो विचकारैकयोजनम् । माणिक्यपीठं धनदो रोहणाद्रेस्तटीमिव ॥ ३२२ ॥ तदूर्ध्वं मण्डपं दिव्यं मणिपीठं च मध्यतः । सिंहासनं तदुपरि विदधे धनदः क्षणात् ॥ ३२३ ॥ क्षीरोदात् त्रिदशैरम्भोऽथानायि धनदाज्ञया । गन्धमाल्यादि चानर्घ्यं सर्वैरपि च पार्थिवैः ॥ ३२४ ॥ सनत्कुमारं विज्ञप्य तत्र सिंहासनोत्तमे । कुबेर आसयामास शक्रप्राभृतमार्पयत् ॥ ३२५ ॥ तस्थौ सनत्कुमारस्य सामन्तादिः परिच्छदः । सामानिकादिको वज्रपाणेरिव यथोचितम् ॥ ३२६ ॥ तस्याथ चक्रवर्तित्वाभिषेकं पुण्यवारिभिः । राज्याभिषेकं श्रीनाभिसूनोरिव सुरा व्यधुः ॥ ३२७ ॥ मङ्गल्यं गीतमारेभे तुम्बुरुप्रमुखैरथ । पटहादीनि वाद्यानि त्रिदशैस्तांडितानि च ॥ ३२८ ॥ रम्भोर्वशीप्रभृतिभिर्नर्तकीभिरनृत्यत । विचित्राण्यभ्यनीयन्त गन्धर्वैर्नाटकानि च ॥ ३२९ ॥ सनत्कुमारं त्रिदशा अभिषिच्यैवमुच्चकैः । वस्त्राङ्गरागनेपथ्यमाल्यैर्दिव्यैरयोजयत् ॥ ३३० ॥ गजरत्नं गन्धवरमध्यारोह्य न्यवीविशत् । सनत्कुमारं मुदितः कुबेरो हस्तिनापुरे ॥ ३३९ ॥ १ हस्तिनापुरे । २ इन्द्रस्य । ३ श्रीआदीश्वरस्य ॥
DEDEDEDEDER
E DE DE DE DEDEDEI
चतुर्थं पर्व
सप्तमः सर्गः श्रीसनत्कुमारचक्रिचरितम् ।
चक्रवर्तित्वभिषेकः ।
॥ १९८ ॥