________________
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थं पर्व सप्तमः
सर्गः श्रीसनत्कुमारचक्रिचरितम् ।
॥२०४॥
128282828282828282828282828
आवाभ्यां तदिहागत्य प्रत्यक्षेण परीक्षितम् । इत्युदित्वा च नत्वा च त्रिदशौ तौ तिरोहितौ ॥ ४०१॥ कौमारे वर्षलक्षार्धं मण्डलित्वे तदेव हि । दशवर्षसहस्राणि ककुभामुपसाधने ॥ ४०२ ॥ चक्रित्वे नवतिवर्षसहस्राणि व्रते पुनः । वर्षलक्षमिति त्र्यब्दलक्षायुस्तुर्यचक्रिणः ॥ ४०३ ॥
ज्ञातेऽवसानसमयेऽनशनं प्रपद्य लक्षत्रयेण शरदां परिपूरितायुः । सुध्यानपञ्चपरमेष्ठिसनत्कुमारः कल्पे सुरः समजनिष्ट सनत्कुमारे ॥ ४०४ ॥ पञ्चार्हन्तः सीरिणः पञ्च पञ्चोपेन्द्राः पञ्चैतद्धिषश्चक्रिणौ द्वौ । यत्रोक्ता द्वाविंशतिः सूत्ररत्नाम्भोधेस्तुर्यं पर्व तद् वः श्रियेऽस्तु ॥ ४०५ ॥ सूत्रात् किञ्चिदुदीरितं कथाभ्यः किञ्चिद् योगपटाच्च किञ्चिदत्र । तेषु स्याद् यदि किञ्चनापि मिथ्या मिथ्यादुष्कृतमस्तु तत्र सन्तः ! ॥ ४०६ ॥ | इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि सनत्कुमारचरितवर्णनो नाम सप्तमः सर्गः ।
[चतुर्थं पर्व समाप्तम्। १ दिशां जये। २ बलभद्राः । ३ वासुदेवाः । ४ प्रतिवासुदेवाः ।
282828282828282828282828288
देवलोकगमनम्।
॥ २०४॥