________________
त्रिषष्टिशलाकापुरुषचरिते ॥१८८॥
चतुर्थं पर्व सप्तमः
सर्गः श्रीसनत्कुमारचक्रिचरितम् ।
28282828282828282828282828
तदा चामुं पुण्यवशाद् यक्षस्तद्वनदैवतम् । जलैः सिषेच सर्वाङ्गं शिशिरैरमतोपमैः ॥ १८६ ॥ उत्थाय लब्धसंज्ञोऽसौ तद्दत्तं तत्पयः पपौ । कस्त्वं कुतो वा वारीदमित्यपृच्छच्च तं शनैः ॥ १८७ ॥ यक्षोऽहमिह वास्तव्यो मानसात् त्वत्कृते पयः । इदं मया समानीतमित्याचख्यौ स यक्षराट् ॥१८८॥ आर्यपुत्रोऽवदद् भूयः संतापोऽने महानयम् । न विना मानससरोमज्जनादपयास्यति ॥१८९ ॥ तवेच्छां पूरयाम्येष इत्युक्त्वा यक्षपुङ्गवः । कदलीसंपुटे क्षिप्त्वाऽमुं मानससरोऽनयत् ॥ १९०॥ तत्र च स्नपयामासार्यपुत्रं स यथाविधि । गजराजं गजायुक्त इव शीतामलैर्जलैः ॥ १९१ ॥ सर्वाङ्गीणं सुखस्पर्शेरपनिन्ये श्रमो जलैः । आर्यपुत्रस्य निपुणैः संवाहकजनैरिव ॥ १९२॥ तत्रासिताक्षो यक्षः प्राग्जन्मारिः सुहृदस्तव । हननाय समागच्छत् कृतान्त इव नूतनः ॥१९३ ॥ अरे रे तिष्ठ सिंहेन क्षुधितेनेव कुञ्जरः । चिरादसि मया दृष्टः कियधुरं गमिष्यसि ? ॥१९४ ॥ इत्यूजितं स तर्जित्वा समुन्मूल्यैकमवीपम् । आर्यपुत्राय सोऽनार्यः प्राक्षिपद् यष्टिलीलया ॥१९५ ॥ समापतन्तं हस्तेन निहत्यापातयद् द्रुमम् । तं ते सखा प्रतिकारभस्त्रामिव मतङ्गजः ॥ १९६ ॥ ततो बहलधलीभिरन्धकारमयं जगत् । अकालोत्पन्नकल्पान्तमिव यक्षश्चकार सः॥१९७॥ स विचक्रे पिशाचाश्च धूमधूम्रकलेवरान् । सोदारानन्धकारस्य दारुणाकारधारिणः ॥१९८ ॥ ज्वालाजालकरालास्यास्ते चित्या इव जङ्गमाः । अट्टहासं विमुञ्चन्तः पतत्पविरवोपमम् ॥१९९ ॥ १ तन्नाम्न सरोवरात् । २ हस्तिपकः । ३ तिरस्कृत्य । ४ वृक्षम्। ५ गजग्रहणोपायभूतां भस्वाम् लोहधमनीम्, 'भट्ठी' इति भाषायाम् । ६ अग्नयः ।
282828282828282828282828288
सनत्कुमार--
वृत्तान्तनिवेदनम्।
१८८॥