________________
त्रिषष्टिशलाका
पुरुषचरिते
चतुर्थं पर्व सप्तमः
सर्गः श्रीसनत्कुमारचक्रिचरितम् ।
॥१८७॥
28888888888888888888888888
परैरप्युच्यमानेन स्ववृत्तेन संताऽपि हि । महापुमांसो लज्जन्ते तत् स्ववृत्तं कथं ब्रुवे ? ॥ १७३ ॥ भवत्वेवं तावदिति विनिश्चित्याश्वसेनसः । इत्यादिदेश दयितां वामपार्श्वे निषेदुषीम् ॥१७४ ॥ प्रिये बकुलमतिके ! विद्यया वेद्यवेदिनि ! अस्मै महेन्द्रसिंहाय तथ्यां कथय मत्कथाम् ॥१७५ ॥ मुकुलीकुरुते नेत्राम्भोजे निद्रा तु मेऽधुना । इत्युदित्वा रतिगृहं सुषुप्सुः प्रविवेश सः ॥ १७६ ॥ ततो बकुलमतिरप्यवोचत् तत्र वासरे । सखा ते वाजिना जहे युष्माकं पश्यतामपि ॥ १७७ ॥ प्रवेशितश्च महतीमटवीमतिदारुणाम् । रह:क्रीडास्थानमिव देवस्य समवर्तिनः ॥१७८ ॥ गच्छन्नह्नि द्वितीयेऽपि सोऽश्वः पञ्चमधारया । मध्याह्ने क्षुत्पिपासातः कृष्ट्वा जिह्वामवास्थितः ॥ १७९ ॥ तस्माच्छासापूर्णकण्ठात् स्तब्धपादात् तुरङ्गमात् । आर्यपुत्रोऽप्यवातारीत् प्रेपित्सोः कुट्टिमादिव ॥ १८० ॥ छोटयित्वा तदुदरबन्धिनं पट्टमायतम् । सोऽश्वादुत्तारयामास पर्याणकविके स्वयम् ॥ १८१ ॥ तुरङ्गमः स घूर्णित्वा पपात धरणीतले । सद्यश्च मुमुचे प्राणैः सहपातभयादिव ॥ १८२ ॥ पिपासयाऽथार्यपुत्रः पयोऽन्वेष्टुमितस्ततः । तस्यामटव्यां बभ्राम नापश्यच्च मराविव ॥ १८३ ॥ सुकुमारतयाऽङ्गस्य दूरायातश्रमेण च । दवदाहादटव्याश्च व्याकुलोऽभूत् सखा तव ॥१८४ ॥ गत्वाऽदूरात् सप्तपर्णतरुमूले द्रुतं ततः । उपाविक्षन्मुकुलितेक्षणः क्षोण्यां पपात च ॥ १८५ ॥
१ सत्येनापि । २ अश्वेन। ३ यमराजस्य। ४ गतिविशेषेण। ५ प्रपतितुमिच्छोः । ६ पर्याणं अश्वपृष्ठाच्छादनम्, कविका वल्गानुगता 'चोकडा'इति ख्याता।
28282828282828282828282828
सनत्कुमार
वृत्तान्तनिवेदनम् ।
॥१८७॥