________________
चतुर्थं पर्व सप्तमः
त्रिषष्टिशलाकापुरुषचरिते ॥१८६॥
सर्गः श्रीसनत्कुमारचक्रिचरितम् ।
28282828282828282828282828
हर्षाश्रुधारया तुल्यं स पतन् पादपद्मयोः । अभ्युत्थायोद्धृत्य सनत्कुमारेणाभिषस्वजे ॥ १५९ ॥ उभौ हर्षाश्रु वर्षन्तौ वार्षिकाविव वारिदौ । सविस्मयावप्रतळपरस्परसमागमात् ॥ १६० ॥ साश्चर्यैर्वीक्ष्यमाणौ तौ विद्याधरकुमारकैः । महाासनयोरासाञ्चक्राते रोमहर्षिणौ ॥ १६१॥ अनन्यदृष्टिमनसौ तावभूतां परस्परम् । योगिनाविव रूपस्थध्यानमुद्रापरायणौ ॥ १६२ ॥ सनत्कुमारकुमारयोगाद् दिव्यौषधादिव । तदा महेन्द्रसिंहस्य श्रमो रोग इवात्रुटत् ॥ १६३ ॥ सनत्कुमारो हर्षाश्रु प्रमृज्याथ स्वचक्षुषोः । महेन्द्रसिंहमित्यूचे ससुधोद्गारया गिरा ॥१६४ ॥ कथमत्र समायासीरेकाक्यासीः कथं नु वा । मामज्ञासीः कथं वाऽत्र कथं वा कालमक्षिपः ? ॥१६५॥ मद्वियोगे पितृपादाः कथं प्राणानधारयन् । कथं पितृभ्यामेकाकी प्रेषितोऽसीह दुर्गमे ? ॥ १६६ ॥ इति पृष्टः कुमारेण बाष्पगद्गदवागथ । महेन्द्रसिंहः प्राग्वृत्तमाचचक्षे यथातथम् ॥ १६७ ॥ ततः सनत्कुमारस्तं विद्याधरवधूजनैः । चतुरैः कारयामास मज्जनं भोजनादि च ॥ १६८ ॥ महेन्द्रसिंहस्तदनु विस्मयस्मेरलोचनः । सनत्कुमारमित्युचे विनयाद् रचिताञ्जलिः ॥ १६९ ॥ तदा तेन तुरङ्गेणापहृतः कियती भुवम् । तदादि मद्वियोगे च प्राप्तं किमथवा त्वया ॥ १७० ॥ इयमृद्धिः कुतो वा ते प्रसीदाख्यातुमर्हसि । रहस्यभूतमेतत् ते गोपनीयं न चेन्मयि ॥ १७१ ॥ सनत्कुमार इत्युक्तश्चिन्तयामास चेतसि । आत्मकल्पे वयस्येऽस्मिन् गोपनीयं न किञ्चन ॥१७२ ॥ १ समम् । २ उत्थाय । ३ तर्कितुमशक्यः परस्परसमागमस्तस्मात् । ४ आगतः। ५ स्नानम्। ६ विस्मयेन प्रफुल्लनेत्रः । ७ तत्प्रभूति। ८ स्वसदृशे ।
28282828288888888888888888
सनत्कुमारान्वेषणम्।
॥१८६ ॥