________________
त्रिषष्टिशलाका
पुरुषचरिते
।। १८५ ।।
REDERERERERERERERERERE DE RI
कर्णमर्माविद्भिरिव मर्मरैरतिदुःश्रवैः । प्रबुद्धोत्कर्णपञ्चास्यबूत्कारेष्वप्यकम्पितः ॥ १४५ ॥ प्रत्यग्रपल्लवास्वादमात्रेणैवोदरम्भरिः । शिशिरं गमयामासांशिशिरो मित्रपीडया ॥ १४६ ॥
॥ त्रिभिर्विशेषकम् ॥
एवं सनत्कुमारस्यान्वेषणायाटतोऽटवीम् । एको महेन्द्रसिंहस्य जगाम परिवत्सरः ॥ १४७ ॥ तस्यामटव्यामन्येद्युर्गत्वा कियदवस्थितः । दिशो विलोकयामास नैमित्तिक इवोन्मुखः ॥ १४८ ॥ ततः कारण्डवक्रौञ्चहंससारसपक्षिणाम् । क्षणादाकर्णयामास कोलाहलमनाकुलः ॥ १४९ ॥ मरुता पङ्कजामोदवाहिनाश्वासितश्च सः । सरः किञ्चिदिहास्तीति निश्चिकायानुमानतः ॥ १५० ॥ आनन्दबाष्पतोयेन निश्चिन्वन् मित्रसंगमम् । सरोवरस्याभिमुखं स ययौ राजहंसवत् ॥ १५१ ॥ गच्छन्नग्रे च शुश्राव गीतं गान्धारबन्धुरम् । मधुरं वेणुनादं च वीणाक्वाणं च हारिणम् ॥ १५२ ॥ विचित्रवस्त्रनेपथ्यरमणीमध्यवर्तिनम् । मित्रं सनत्कुमारं स ददर्श प्रियदर्शनम् ॥ १५३ ॥
प्रियसुहृत् किं मे माया कस्यापि कापि वा । इन्द्रजालमिदं किं वा हृदयान्निर्गतोऽथ मे ॥ १५४ ॥ इति सोऽचिन्तयद् यावत् तावत् कर्णरसायनम् । वैतालिकेन केनापि पठ्यमानमदोऽशृणोत् ॥ १५५ ॥ कुरुवंशसरोहंसाश्वसेनाब्धिनिशाकर! । सनत्कुमार ! सौभाग्यमनोभव ! चिरं जय ॥ १५६ ॥ जय विद्याधरवधूदोर्लतालिङ्गनद्रुम ! | आढ्यम्भविष्णो ! वैताढ्य श्रेणिद्वयजयश्रिया ॥ १५७ ॥ एवं समाकर्ण्य सनत्कुमारस्य स दृक्पथम् । जगाम ग्रीष्मसंतप्तो जलाशयमिव द्विपः ॥ १५८ ॥ १ पञ्चास्यः सिंहः । २ तप्तः । ३ मनोहरम् ।
DYRYDERERERERERERERERE DE RY
चतुर्थं प
सप्तमः
सर्गः
श्रीसनत्कु
मारचक्रिचरितम् ।
सनत्कुमारान्वेषणम् ।
५ ।। १८५ ।।