________________
त्रिषष्टिशलाकापुरुषचरिते ॥१८४॥
चतुर्थं पर्व सप्तमः
सर्गः श्रीसनत्कुमारचक्रिचरितम् ।
888888888888888888888888
पदे पदे वननदीर्वेगोन्मूलितपादपाः । दुस्तरा अप्यनायासं राजहंस इवोत्तरन् ॥१३५॥ आक्रामन् पङ्किलं मागं वराह इव लीलया । मित्रान्वेषी पर्यटन् स वर्षा अप्यत्यवाहयत् ॥१३६ ॥
॥चतुर्भिः कलापकम् ॥ मूर्ध्नि चित्रातपं घोरं पादयोस्तप्तवालुकाः । सहमानोऽग्निशरावसंपुटान्तर्वसन्निव ॥१३७ ॥ स्वच्छे तोये तोयजेषु हंसादिषु च पक्षिषु । अविश्रान्तमनाः क्वासि क्वासि मित्रैवमुद्गुणन् ॥१३८ ॥ मंदगन्धिसप्तपर्णक्रुद्धधावितदन्तिनाम् । मध्येन गच्छन् दन्तीव वनान्तरसमागतः ॥१३९ ॥ सख्येव पवमानेन प्रेर्यमाणोऽब्जगन्धिना । अत्यगाच्छरदमपि स भ्रमन् शरदभ्रवत् ॥ १४०॥
॥चतुर्भिः कलापकम् ॥ उत्तरेण समीरेण हिमाद्रेरिव बन्धुना । हिमसात् क्रियमाणेषु सरसीसरिदम्बुषु ॥१४१॥ दवाग्निनाऽप्यदाह्यासु दह्यमानासु सर्वतः । जलान्तःपद्मकल्हारकैरवोत्पलपङ्किषु ॥१४२ ॥ शीतार्तेषु किरातेषु दवानलमपीच्छुषु । हेमन्तमप्यतीयाय स बाढं दृढनिश्चयः ॥१४३ ॥
॥त्रिभिर्विशेषकम् ॥ शीर्णेषु जानुदध्नेषु पुष्पपत्रेषु भूरुहाम् । छन्नाहिवृश्चिकेष्वडीन्यासं निःशङ्कमादधत् ॥ १४४ ॥
8282828282828282828282828288
सनत्कुमारान्वेषणम्।
॥१८४॥
१ चित्रा नक्षत्रं तस्य तापः । २ कमलेषु । ३ मदो हस्तिमदस्तस्येव गन्धो यस्यैतादृशेन सप्तपर्णवृक्षण क्रुद्धा अत एव धाविताश्च ते दन्तिनश्च | तेषाम्। ४ वायुना। ५ छन्नाः सर्पाश्च वृश्चिकाश्च येषु तेषु ।