________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १८३ ॥
REDERERE RE
REDCRY
नदीकरिहरीनूचे मद्बन्धो ध्वनिरेष यत् । स वः पार्श्वे ततो लभ्यं सर्वं ह्येकांशदर्शनात् ॥ १२३ ॥ सर्वत्राप्रेक्ष्य सहृदमुच्चैरारुह्य शाखिनः । दिशो न्यरूपयद् भूयो मार्गभ्रान्त इवाध्वगः ॥ १२४ ॥ बद्धशोक इवाशोकेष्वाकुलो बकुलेष्वपि । असहः सहकारद्रुष्वमल्लो मल्लिकास्वपि ॥ १२५ ॥ न्यक्कारी कर्णिकारेषु पाटल: पाटलास्वपि । दूरस्थः सिन्दुवारेषु सोत्कम्पश्चम्पकेष्वपि ॥ १२६ ॥ पराङ्मुखश्च मलयानिलेष्वपि खलेष्विव । स्फुटत्कर्णः कोकिलानां पञ्चमोच्चारितेष्वपि ॥ १२७ ॥ अशान्तताप: पीयूषरश्मेरपि हि रश्मिषु । स वसन्तमतीयाय रोरपुत्र इवैककः ॥ १२८ ॥
॥ चतुर्भिः कलापकम् ॥
कुंकूलैरिव विस्तीर्णै: पादपद्मनखम्पचैः । भृज्यमानोऽर्कांशुततैर्भूरजोभिः पदे पदे ॥ १२९ ॥ सद्यो निर्वाणदावाग्निभस्मदुःसंचरेऽध्वनि । पादतापमजानानोऽग्निस्तम्भमिव सूत्रयन् ॥ १३० ॥ उष्णवात्याभिरनलज्वालाभिरिव भूरिभिः । वपुस्तापमगणयन् करी गिरिचरो यथा ॥ १३१ ॥ क्वाथान् रोगीव सरितां पङ्किलान्यूष्मलानि च । पिबन् पयांसि स ग्रीष्मं भ्राम्यन्नेको ऽत्यवाहयत् ॥ १३२ ॥
॥ चतुर्भिः कलापकम् ॥
रक्षोभिरिव जीमूतैरुद्यद्विद्युन्मुखाग्निभिः । अक्षोभ्यमाणहृदयो विश्वविक्षोभणैरपि ॥ १३३ ॥ अखण्डप्रसरैर्धारासारैः शितशरैरिव । विध्यमानोऽपि संनद्ध इवामुह्यन् मनागपि ॥ १३४ ॥
1
१ यत्रैकांशदर्शनं तत्र सर्वं भवेदिति न्यायात् । २ आम्रवृक्षेषु । ३ तिरस्कर्ता । ४ दीनपुत्रः । ५ तुषानलैः । ६ वायूनां समूहो वात्या ७ मेघैः । ८ तीक्ष्णबाणैः । ९ वर्मितः ।
CREDERERERE
RYDERY RYDY
चतुर्थं पर्व
सप्तमः सर्गः श्रीसनत्कुमारचक्रिचरितम् ।
सनत्कुमारान्वेषणम् ।
॥ १८३ ॥