________________
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थं पर्व सतमः
सर्गः श्रीसनत्कुमारचक्रिचरितम्।
॥१८९॥
282828282828282828282828282
पिङ्गकेशाः पिङ्गनेवाः सदवा इव पर्वताः । लम्बजिह्वाः कोटारान्तःस्थिताहय इव द्रुमाः ॥ २०० ॥ तीक्ष्णवक्रा महादंष्ट्रा दधानाः कत्रिका इव । अधावन्ताध्यार्यपुत्रमधिमध्विव मक्षिकाः ॥ २०१॥
॥त्रिभिर्विशेषकम् ॥ भ्राम्यतो विकृताकारान् रङ्गादाविव नर्तकान् । आर्यपुत्रोऽपि तान् पश्यन् न बिभाय मनागपि ॥ २०२॥ पिशाचेभ्योऽप्यचकितमार्यपुत्रं तरस्विनम् । अकालकालपाशाभैर्नागपाशैर्बबन्ध सः ॥२०३ ॥ आर्यपुत्रस्तु तान् सर्वांस्त्रोटयामास लीलया । हस्तोत्क्षेपेण हस्तीवाविहस्तो वल्लिमण्डपम् ॥ २०४ ॥ अमुं यक्षो विलक्षोऽथ करघातैरताडयत् । महागिरिप्रस्थमिव लाङ्गलाच्छोटनैर्हरिः ॥२०५॥ आजघानार्यपुत्रस्तं वज्रसारेण मुष्टिना । महामात्र इव क्रुद्धो लोहगोलेन दन्तिनम् ॥ २०६ ॥ अयोवलयितेनाथ मुद्रेण गरीयसा । आर्यपुत्रं न्यहन् यक्षस्तडितेवाद्रिमम्बुदः ॥ २०७॥ चन्दनद्रुममुन्मूल्य तेन वर्धिष्णुराहतः । यक्षः पपात भुव्यूद्धर्वशोषं शुष्क इव द्रुमः ॥ २०८ ॥ यक्षोऽपि शैलमुत्क्षिप्य लीलया गण्डशैलवत् । आर्यपुत्रस्योपरिष्टाच्चिक्षेपामर्षणः क्षणात् ॥ २०९॥ तेन शैलप्रहारेण जज्ञे निश्चेतनः क्षणम् । सायं नदीहूद इव मीलितेक्षणपङ्कजः ॥ २१० ॥ लब्धसंज्ञो विधूयादि महावायुरिवाम्बुदम् । आर्यपुत्रः प्रववृत्ते बाहुभ्यां योद्धमुच्चकैः ॥२११॥
282828282828282828282828285
सनत्कुमार
वृत्तान्तनिवेदनम्।
॥१८९॥
१ दवानलसहिताः । २ बलिनम् । ३ अमन्दः । ४ विषण्णः ।