________________
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थं पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम् ।
॥१६५
8282828282828282828282828
यथा नृणां चक्रवर्ती सुराणां पाकशासनः । तथा गुणानां सर्वेषां संतोषः प्रवरो गुणः ॥ ३३२ ॥ संतोषयुक्तस्य यतेरसंतुष्टस्य चक्रिणः । तुलया संमितो मन्ये प्रकर्षः सुखदुःखयोः ॥ ३३३ ॥ स्वाधीनं राज्यमुत्सृज्य संतोषामृततृष्णया । निःसंगत्वं प्रपद्यन्ते तत्क्षणाच्चक्रवर्तिनः ॥ ३३४ ॥ निवृत्तायां धनेच्छायां पार्श्वस्था एव संपदः । अङ्गल्या पिहिते कर्णे शब्दाद्वैतं हि जम्भते ॥ ३३५ ॥ संतोषसिद्धौ संसिद्धाः प्रतिवस्तुविरक्तयः । अक्ष्णोः पिधाने पिहितं ननु विश्वं चराचरम् ॥ ३३६ ॥ किमिन्द्रियाणां दमनैः किं कायपरिपीडनैः । ननु संतोषमात्रेण मुक्तिश्रीर्मुखमीक्षते ॥३३७॥ जीवन्तोऽपि विमुक्तास्ते ये मुक्तिसुखशालिनः । किंवा विमुक्तेः शिरसि शृङ्गे किमपि वर्तते ॥ ३३८ ॥ किं रागद्वेषसंकीर्णं किं वा विषयसंभवम् । येन संतोषजं सौख्यं हीयेत शिवशर्मणः ॥ ३३९ ॥ परप्रत्यायनासारैः किं वा शास्त्रसुभाषितैः । मीलिताक्षा विमृशन्तु संतोषास्वादजं सुखम् ॥ ३४० ॥ चेत् कारणानुकारीणि कार्याणि प्रतिपद्यसे । संतोषानन्दजन्मा तन्मोक्षानन्दः प्रतीयताम् ॥ ३४१॥ यच्च तीव्र तपःकर्म कर्मनिर्मूलनं जगुः । सर्वं तदपि संतोषरहितं विफलं विदुः ॥ ३४२ ॥ कृषि-सेवा-पाशुपाल्य-वाणिज्यैः किं सुखार्थिनाम् । ननु संतोषपानात् किं नात्मा निर्वृतिमाप्यते ! ॥३४३॥
28282828282828282828282828
देशना।
॥१६५॥
१ यतेः सुखस्य प्रकर्षश्चक्रिणश्च दुःखस्येत्यर्थः । २ प्रतिवस्तुषु वैराग्यवन्तः। ३ येन श्रृङ्गवर्तिना मोक्षसुखात् संतोषजं सौख्यं हीयेत। ४ प्रत्यायनम्-साधनं विवरणं पाणिग्रहणं वा ।