________________
चतुर्थं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥१६४॥
पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम् ।
28282828282828282828282828
भूषणोद्यानवाप्यादौ मूच्छितास्त्रिदशा अपि । च्युत्वा तत्रैव जायन्ते पृथ्वीकायादियोनिषु ॥ ३२१ ॥ प्राप्योपशान्तमोहत्वं क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि हि॥३२२ ॥ एकामिषाभिलाषेण सारमेया इव द्रुतम् । सोदर्या अपि युध्यन्ते धनलेशजिघृक्षया ॥३२३ ॥ लोभाद् ग्रामादिसीमानमुद्दिश्य गतसौहृदाः । ग्राम्या नियुक्ता राजानो वैरायन्ते परस्परम् ॥३२४ ॥ हास-शोक-द्वेष-हर्षानसतोऽप्यात्मनि स्फुटम् । स्वामिनोऽग्रे लोभवन्तो नाटयन्ति नटा इव ॥३२५ ॥ आरभ्यते पूरयितुं लोभगर्तो यथा यथा । तथा तथा महच्चित्रं मुहुरेप विवर्धते ॥ ३२६ ॥ अपि नामैष पूर्येत पयोभिः पयसां पतिः । न तु त्रैलोक्यराज्येऽपि प्राप्ते लोभः प्रपूर्यते ॥ ३२७ ॥ अनन्ता भोजनाच्छादविषयद्रव्यसंचयाः । भुक्तास्तथापि लोभस्य नांशोऽपि परिपूर्यते ॥ ३२८ ॥ लोभस्त्यक्तो यदि तदा तपोभिरफलैरलम् । लोभस्त्यक्तो न चेत् तर्हि तपोभिरफलैरलम् ॥ ३२९॥ मृदित्वा शास्त्रसर्वस्वं तदेतदवधार्यताम् । लोभस्यैकस्य हानाय प्रयतेत महामतिः ॥ ३३० ॥ लोभसागरमुढेलमतिवेलं महामतिः । संतोषसेतुबन्धेन प्रसरन्तं निवारयेत् ॥ ३३१ ॥
282828282828282828282828286
देशना।
१ आमिषम् - मांसम्, भक्ष्यं वा। २ अधिकारिणः। ३ आच्छादाः वस्त्राणि । ४ लोभरहितस्य पुरुषस्य तप:सदृशं फलं भवत्यत एव तपांसि निष्फलानि, लोभसहितस्य च तपस्सु तप्तेष्वपि फलं न भवतीति तपांसि निष्फलानीति भावः । ५ नाशाय ।६ वेला मर्यादामतिक्रान्तस्तम् ।
॥१६४॥
भसहितस्य च तपस्सु ते अधिकारिणः। ३ आच्छादा