________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ १६३ ॥
REDERERERY
REDDERKRY
अपि श्रुताब्धिपारीणाः सर्वे गणभृदुत्तमाः । अहो ! शैक्षाश्चाश्रौषुरार्जवादर्हतां गिरः ॥ ३०८ ॥ अशेषमपि दुःकर्म ऋज्वालोचनया क्षिपेत् । कुटिलालोचनां कुर्वन्नल्पीयोऽपि विवर्धते ॥ ३०९ ॥ काये वचसि चित्ते च समन्तात् कुटिलात्मनाम् । न मोक्षः किन्तु मोक्षः स्यात् सर्वत्राकुटिलात्मनाम् ॥ ३१० ॥ इत्युग्रं कर्म कौटिल्यं कुटिलानां विभावयन् । आश्रयेदृजुतामेकां सुधीर्निवृतिकाम्यया ॥ ३११ ॥
करः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां लोभः सर्वार्थबाधकः ॥ ३१२ ॥ धनहीनः शतमेकं सहस्रं शतवानपि । सहस्राधिपतिर्लक्षं कोटिं लक्षेश्वरोऽपि च ॥ ३१३ ॥ कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥ ३१४ ॥ इन्द्रत्वेऽपि हि संप्राप्ते यदिच्छा न निवर्तते । मूले लघीयांस्तल्लोभः सराव इव वर्धते ॥ ३१५ ॥ हिंसेव सर्वपापानां मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां लोभः सर्वागसां गुरुः ॥ ३१६ ॥ अहो ! लोभस्य साम्राज्यमेकच्छत्रं महीतले । तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत् ॥ ३१७ ॥ अपि द्रविणलोभेन ते द्वित्रिचतुरिन्द्रियाः । स्वकीयान्यधितिष्ठन्ति प्राग्निधानानि मूर्च्छया ॥ ३१८ ॥ भुजङ्गगृहगोधाः स्युर्मुख्याः पञ्चेन्द्रिया अपि । धनलोभेन लीयन्ते निधानस्थानभूमिषु ॥ ३१९ ॥ पिशाच- मुद्गल-प्रेत-भूत-यक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः ॥ ३२० ॥
१ श्रुतसमुद्रस्य पारगामिनः । २ शिष्या: । ३ सर्वपापानाम् । ४ मूलैः ।
५ मुद्गलाः - व्यन्तरविशेषाः ।
REAGAGAUDERERERERERERERERY
चतुर्थं
पञ्चमः सर्गः
श्रीधर्म
नाथजिनचरितम् ।
देशना ।
॥ १६३ ॥