________________
त्रिषष्टिशलाकापुरुषचरिते ॥१६६॥
चतुर्थं पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम्।
282828282828282828282828282
यत् संतोषवतां सौख्यं तृणसंस्तरशायिनाम् । न तत् संतोषवन्ध्यानां तूलिकाशायिनामपि ॥३४४ ॥ असंतुष्टास्तृणायते धनिनोऽपीशिनां पुरः । ईशिनोऽपि तृणायन्ते संतुष्टानां पुरः स्थिताः ॥ ३४५ ॥ आयासमानं नश्वर्यं चक्रिशक्रादिसंपदः । अनायासं च नित्यं च सुखं संतोषसंभवम् ॥३४६ ॥ इति लोभं निराकर्तुं सर्वदोषनिकेतनम् । अद्वैतसौख्यसदनं सुधीः संतोषमाश्रयेत् ॥ ३४७॥ एवं जितकषायः सन्नत्रापि शिवसौख्यभाक् । परत्रावश्यमाप्नोति शिवं पुनरनश्वरम् ॥ ३४८ ॥ श्रुत्वैवं देशनां भर्तुः प्राज्याः पर्यव्रजञ्जनाः । सम्यक्त्वं तु हरिर्भेजे श्रावकत्वं तु सीरभृत् ॥३४९ ॥ पूर्णायामादिपौरुष्यां व्यसृजद् देशनां प्रभुः । चक्रेऽरिष्टः स्वामिपादपीठस्थो गणभृत् ततः ॥ ३५० ॥ अन्ते द्वितीयपोरुष्यां व्यस्राक्षीत् सोऽपि देशनाम् । नत्वाऽर्हन्तं ततो जग्मुः शक्र-विष्णु-बलादयः ॥ ३५१ ॥ ततः स्थानादथान्यत्र सर्वातिशयशोभितः । भगवान् धर्मनाथोऽपि विजहार महीतलम् ॥ ३५२ ॥ चतुःषष्टिः सहस्राणि श्रमणानां महात्मनाम् । आर्यिकाणां तु द्वाषष्टिः सहस्राः सचतुःशताः ॥ ३५३ ॥ तथा चतुर्दशपूर्वभृतां नवशतानि तु । अवधिज्ञानभाजां तु त्रिसहस्त्री सषट्शती ॥ ३५४॥ मनःपर्ययिणां पञ्चचत्वारिंशच्छतानि तु । तथा शतानि तान्येव केवलज्ञानशालिनाम् ॥ ३५५ ॥ जातवैक्रियलब्धीनां मुनीनां शतसप्ततिः । द्वे सहस्रे शतान्यष्टौ वादलब्धिमतां पुनः ॥ ३५६ ॥ लक्षद्वयी श्रावकाणां चत्वारिंशत्सहस्रयुक् । श्राविकाणां चतुर्लक्षी त्रयोदशसहस्रयुक् ॥ ३५७ ॥ वर्षलक्षद्वयं सार्धं वर्षद्वितयवर्जितम् । आकेवलाद् विहरतः परिवारोऽभवत् प्रभोः ॥ ३५८ ॥
१ तृणमिव आचरन्ति । २ बहवः । ३ विससर्ज ।
1282828282828282828282828282
श्रीधर्मनाथजिनस्य परिवारः।
॥१६६॥