________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ १६० ॥
REDEREREREREREREREREREREDE
स्वबुद्ध्या रचितान्यन्यैः शास्त्राण्याघ्राय लीलया । सर्वज्ञोऽस्मीति मदवान् स्वकीयाङ्गानि खादति ॥ २७९ ॥ श्रीमद्गणधरेन्द्राणां श्रुत्वा निर्माणधारणम् । कः श्रयेत श्रुतमदं सकर्णहृदयो जनः ॥ २७२ ॥ उत्सर्पयन् दोषशाखां गुणमूलान्यधो नयन् । उन्मूलनीयो मानद्रुस्तन्मार्दवसरित्प्लवैः ॥ २७३ ॥ मार्दवं नाम मृदुता तच्चौद्धत्यनिषेधनम् । मानस्य पुनरौद्धत्यं स्वरुपमनुपाधिकम् ॥ २७४ ॥ अन्तः स्पृशेद् यत्र यत्रौद्धत्यं जात्यादिगोचरम् । तत्र तस्य प्रतीकारहेतोर्मार्दवमाश्रयेत् ॥ २७५ ॥ सर्वत्र मार्दवं कुर्यात् पूज्येषु तु विशेषतः । येन पापाद् विमुच्येत पूज्यपूजाव्यतिक्रमात् ॥ २७६ ॥ मानाद् बाहुबलिर्बद्धो लताभिरिव पाप्मभिः । मार्दवात् तत्क्षणं मुक्तः सद्यः संप्राप केवलम् ॥ २७७ ॥ चक्रवर्ती त्यक्तसंगो वैरिणामपि वेश्मसु । भिक्षायै यात्यहो ! मानच्छेदयामृदुमार्दवम् ॥ २७८ ॥ चक्रवर्त्यपि तत्कालदीक्षितो रङ्कसाधवे । नमस्यति त्यक्तमानश्चिरं च वरिवस्यति ॥ २७९ ॥ एवं च मानविषयं ज्ञात्वा दोषमशेषतः । अश्रान्तमाश्रयेद् धीमांस्तन्निरासाय मार्दवम् ॥ २८० ॥ अनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ॥ २८१ ॥ कौटिल्यपटव: पापा मायया बकवृत्तयः । भुवनं वञ्चयमाना वञ्चयन्ते स्वमेव हि ॥ २८२ ॥
१ अन्यैराचार्यैः स्वबुद्ध्या लीलामात्रेण रचितानि शास्त्राण्याघ्राय किञ्चिज्ज्ञात्वेत्यर्थः । २ विस्तारयन् । ३ अमृदु कठिनं च तन्मार्दवं चेत्यमृदुमार्दवम् । ४ नमस्यति नमः करोति पूजयतीत्यर्थः । ५ वरिवस्यति वरिवः करोति सेवते इत्यर्थः । अत्र 'नमस्’'वरिवस् ' इत्यतः “नमोवरिवश्चित्रङ्गोऽर्चासेवाऽऽश्चर्ये" [ ३.४.३१ ] इति सूत्राद् अर्चायाम्, सेवायाम् च यथाक्रमेण क्यन् प्रत्ययाद् नमस्यति, वरिवस्यति इति सिद्ध्यतः । ६ निरन्तरम् । ७ असत्यस्य ।
DEDEDERKREDERERERERERERURY
चतुर्थं पर्व
पञ्चमः
सर्गः
श्रीधर्मनाथजिनचरितम् ।
देशना ।
॥ १६० ॥