________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १६१ ।।
FRERERERERERERERERERERERER!
कूटषाड्गुण्ययोगेन च्छ्लाद् विश्वस्तघातनात् । अर्थलोभाच्च राजानो वञ्चयन्तेऽखिलं जगत् ॥ २८३ ॥ तिलकैर्मुद्रया मन्त्रैः क्षामतादर्शनेन च । अन्तःशून्य बहिःसारा वञ्चयन्ति द्विजा जनम् ॥ २८४ ॥ कूटाः कूटतुलामानाऽऽशुक्रियासातियोगतः । वञ्चयन्ते जनं मुग्धं मायाभाजो वणिग्जनाः ॥ २८५ ॥ जटा - मौजी - शिखा - भस्म वल्कलाग्न्यादिधारणैः । मुग्धं श्राद्धं गर्धयन्ते पाखण्डा हृदि नास्तिका: ॥ २८६ ॥ अरक्ताभिर्भाव-हाव-लीला - गतिविलोकनैः । कामिनो रञ्जयन्तीभिर्वेश्याभिर्वञ्च्यते जगत् ॥ २८७ ॥ प्रतार्य कूटैः शपथैः कृत्वा कूटकपर्दिकाम् । धनवन्तः प्रतार्यन्ते दुरोदरपरायणैः ॥ २८८ ॥
दम्पती पितरः पुत्रा सोदर्याः सुहृदो निजाः । ईशा भृत्यास्तथाऽन्येऽपि माययाऽन्योऽन्यवञ्चकाः ॥ २८९ ॥ अर्थलुब्धा गतघृणा बन्दिकारमलिम्लुचाः । अहर्निशं जागरूकाश्छलयन्ति प्रमादिनम् ॥ २९० ॥ कारवश्चान्त्यजाश्चैव स्वकर्मफलजीविनः । माययाऽलीकशपथैः कुर्वते साधुवञ्चनम् ॥ २९९ ॥ व्यन्तरादिकुयोनिस्था दृष्ट्वा प्रायः प्रमादिनः । क्रूराश्छलैर्बहुविधैर्बाधन्ते मानवान् पशून् ॥ २९२ ॥ मत्स्यादयो जलचराश्छलात् स्वापत्यभक्षकाः । बध्यन्ते धीवरैस्तेऽपि माययाऽऽनीयपाणिभिः ॥ २९३ ॥ नानोपायैर्मृगयुभिर्वञ्चनप्रवणैर्जडाः । निबध्यन्ते विनाश्यन्ते प्राणिनः स्थलचारिणः ॥ २९४ ॥
१ असत्यषाड्गुण्यस्य सन्ध्यादेः प्रयोगेण । २ दीनताप्रदर्शनेन । ३ आशुक्रिया सत्वरक्रिया । ४ मौञ्जी-मुञ्जस्य तृणविशेषस्य कटिमेखला ५ लोभयन्ति । ६ असत्यनाणकम् । ७ दुरोदरः द्यूतम् । ८ मङ्गलपाठक- रूपेण चौरा: । ९ कर्मकरा: । १० आनायो जालं पाणौ हस्ते येषां तैः । ११ व्याधैः
REDERERERERERERERERERERERY
चतुर्थं पर्व
पञ्चमः सर्गः
श्रीधर्म
नाथजिनचरितम् ।
देशना ।
॥ १६९ ॥