________________
चतुर्थं पर्व पञ्चमः
त्रिषष्टिशलाकापुरुषचरिते ॥१५९॥
सर्गः
श्रीधर्मनाथजिनचरितम् ।
28282828282828282828282828
जातिभेदान्नैकविधानुत्तमाधममध्यमान् । दृष्ट्वा को नाम कुर्वीत जातु जातिमदं सुधीः ॥२५७ ॥ उत्तमां जातिमाप्नोति हीनामाप्नोति कर्मतः । तत्रांशाश्वतिकी जाति को नामासाद्य माद्यतु ॥ २५८ ॥ अन्तरायक्षयादेव लाभो भवति नान्यथा । ततश्च वस्तुतत्त्वज्ञो नो लाभमदमुद्हेत् ॥ २५९ ॥ परप्रसादशक्त्यादिभवे लाभे महत्यपि । न लाभमदमृच्छन्ति महात्मानः कथञ्चन ॥२६०॥ अकुलीनानपि प्रेक्ष्य प्रज्ञाश्रीशीलशालिनः । न कर्तव्यः कुलमदो महाकुलभवैरपि ॥२६१ ॥ किं कुलेन कुशीलस्य सुशीलस्यापि तेन किम् । एवं विदन् कुलमदं विदध्यान्न विचक्षणः ॥२६२ ॥ श्रुत्वा त्रिभुवनैश्वर्यसंपदं वज्रधारिणः । पुर-ग्राम-धनादीनामैश्वर्ये कीदृशो मदः ॥२६३ ॥ गुणोज्ज्वलादपि भ्रश्येद् दोषवन्तमपि श्रयेत् । कुशीलस्त्रीवदैश्वर्यं न मदाय विवेकिनाम् ॥ २६४॥ महाबलोऽपि रोगाद्यैरबलः क्रियते क्षणात् । इत्यनित्यबले पुंसां युक्तो बलमदो न हि ॥ २६५ ॥ बलवन्तोऽपि जरसि मृत्यौ कर्मफलान्तरे । अबलाश्चेत् ततो हन्त ! तेषां बलमदो मुधा ॥ २६६ ॥ सप्तधातुमये देहे चयापचयधर्मणः । जरा-रुजादिभावस्य को रूपस्य मदं वहेत् ॥ २६७ ॥ सनत्कुमारस्य रूपं भावि श्रुत्वा च तत्क्षयम् । को वा सकर्णः स्वजेऽपि कुर्याद् रूपमदं किल ! ॥२६८ ॥ नाभेयस्य तपोनिष्ठां श्रुत्वा वीरजिनस्य च । को नाम स्वल्पतपसि स्वकीये मदमाश्रयेत् ? ॥२६९ ॥ येनैव तपसा त्रुटयेत् तरंसा कर्मसंचयः । तेनैव मददिग्धेन वर्धते कर्मसंचयः ॥ २७० ॥
१ अनित्याम् । २ परस्य राजादेः प्रसादः शक्तिः प्रभुत्वादिस्तदादेरुत्पन्ने। ३ कुलेन। ४ इन्द्रस्य। ५ नश्येत्। ६ कुलटास्त्रीवत्। ७ वृद्धत्वे । |८ आदिनाथस्य ऋषभस्य। ९शीघ्रम्। १० मदलिप्तेन ।
38282828282828282828282828
देशना।
॥१५९॥