________________
त्रिषष्टिशलाका
पुरुषचरिते
।। १५८ ।।
BAYAYAYAYDEDEDYRYDERYRYDERY
उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मंण्डलः । मृगारिः शरमुत्प्रेक्ष्य शरक्षेप्तारमृच्छति ॥ २४३ ॥ यैः परः प्रेरितः क्रूरैर्मह्यं कुप्यति कर्मभिः । तान्युपेक्ष्य परे क्रुध्यन् किं श्रये भषणश्रियम् ॥ २४४ ॥ भावी ह्यर्हन्महावीरः क्षान्त्यै म्लेच्छेषु यास्यति । अयत्नेनागतां क्षान्तिं वोढुं किमिव नेच्छसि ॥ २४५ ॥ त्रैलोक्यप्रलयत्राणक्षमाश्चेदाश्रिताः क्षमाम् । कदलीतुल्यसत्त्वस्य क्षमा तव न किं क्षमा ॥ २४६ ॥ तथा किं नाकृथाः पुण्यं यथा कोऽपि न बाधते । स्वप्रमादमिदानीं तु शोचन्नङ्गीकुरु क्षमाम् ॥ २४७ ॥ क्रोधान्धस्य मुनेश्चण्डचण्डालस्य च नान्तरम् । तस्मात् क्रोधं परित्यज्य भजोज्ज्वलधियां पदम् ॥ २४८ ॥ महर्षिः क्रोधसंयुक्तः निःक्रोधः कूरगड्डुकः । ऋषि मुक्त्वा देवताभिः स्तोष्यते कूरगड्डुकः ॥ २४९ ॥ अंरुन्तुदैर्वचःशस्त्रैस्तुद्यमानो विचिन्तयेत् । चेत् तथ्यमेतत् कः कोपोऽथ मिथ्योन्मत्तभाषितम् ॥ २५० ॥ वधायोपस्थितेऽन्यस्मिन् हसेद् विस्मितमानसः । वधे मत्कर्मसंसाध्ये वृथा नृत्यति बालिशः ॥ २५१ ॥ निहन्तुमुद्यते ध्यायेदायुषः क्षय एष नः । तदसौ निर्भयः पापात् करोति मृतमारणम् ॥ २५२ ॥ सर्वपुरुषार्थचौरे कोपः कोपे न चेत् तव । धिक् त्वां स्वल्पापराधेऽपि परे कोपपरायणम् ॥ २५३ ॥ सर्वेन्द्रियग्लानिकरं प्रसर्पन्तं ततः सुधीः । क्षमया जाङ्गुलिकया जयेत् कोपमहोरगम् ॥ २५४ ॥ विनयश्रुतशीलानां त्रिवर्गस्य च घातकः । विवेकलोचनं लुम्पन्मानोऽन्धंकरणो नृणाम् ॥ २५५ ॥ जाति-लाभ-कुलैश्वर्य-बल-रूप - तपः श्रुतैः । कुर्वन् मदं पुनस्तानि हीनानि लभते जनः ॥ २५६ ॥ १ श्वानः । २ शत्रुः । ३ भषणः श्वानः ४ समर्था । ५ मर्मच्छद्भिः । ६ सर्पापहारिण्या विद्यया । ७ भवान्तरे इत्यर्थः ।
GREREDEREREREDERERERERERERY
चतुर्थं पर्व पञ्चमः सर्गः
श्रीधर्म
नाथजिनचरितम् ।
देशना ।
॥ १५८ ॥