________________
त्रिषष्टिशलाकापुरुषचरिते ॥१५७॥
चतुर्थं पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम्।
028282828282828282828282828
उत्पद्यमानः प्रथमं दहत्येव स्वमाश्रयम् । क्रोधः कृशानुवत् पश्चादन्यं दहति वा न वा ॥२३०॥ अर्जितं पूर्वकोटया यद्वषैरष्टाभिरूनया । तपस्तत्तत्क्षणादेव दहति क्रोधपावकः ॥२३१ ॥ शमरूपं पयः प्राज्यपुण्यसंभारसंचितम् । अमर्षविषसंपर्कादसेव्यं तत्क्षणाद् भवेत् ॥ २३२ ॥ चारित्रचित्ररचनां विचित्रगुणधारिणीम् । समुत्सर्पन् क्रोधधूमो ध्यामलीकुरुतेतमाम् ॥२३३ ॥ यो वैराग्यशमीपत्रपुटैः शमरसोऽर्जितः । शाकपत्रपुटाभेन क्रोधेनोत्सृज्यते स किम् ॥२३४॥ प्रवर्धमानः क्रोधोऽयं किमकार्यं करोति न । भाविनी द्वारका द्वैपायनक्रोधानले समित् ॥ २३५॥ क्रुध्यतः कार्यसिद्धिर्या न सा क्रोधनिबन्धना । जन्मान्तरार्जितोर्जस्विकर्मणः खलु तत् फलम् ॥२३६॥ स्वस्य लोकद्वयोच्छित्त्यै नाशाय स्व-परार्थयोः । धिगहो ! दधति क्रोधं शरीरेषु शरीरिणः ॥ २३७ ॥ क्रोधान्धाः पश्य निघ्नन्ति पितरं मातरं गुरुम् । सुहृदं सोदरं दारानात्मानमपि निघृणाः ॥२३८ ॥ क्रोधवतेस्तदह्नाय शमनाय शुभात्मभिः । श्रयणीया क्षमैकैव संयमारामसारणिः ॥२३९ ॥ अपकारिजने कोपो निरोद्धं शक्यते कथम् । शक्यते सत्त्वमाहात्म्याद् यद्वा भावनयाऽनया ॥२४०॥ अङ्गीकृत्यात्मनः पापं यो मां बाधितुमिच्छति । स्वकर्मनिहतायास्मै कः कुप्येद् बालिशोऽपि सन् ॥२४१॥ प्रकुप्याम्यपकारिभ्य इति चेदाशयस्तव । तत् किं न कुप्यसि स्वस्य कर्मणे दुःखहेतवे ॥२४२ ॥
१ अग्निवत् । २ अमर्षः क्रोधः स एव विषं तस्य संबन्धात् । ३ अतिशयेन मलिनीकुरुते । ४ काष्ठरूपा भविष्यति । ५ निबन्धनं कारणम्। ६ निर्दया: । ७ संयम एवारामस्तस्य सारणि: कुल्या ।८ स्वेनैव कर्मणा निहताय । ९ मूर्योऽपि ।
628282828282828282828282828
देशना।
॥१५७॥