________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १५६ ।।
DEDEDEDEDEREREREDEREREDERY
भूयो भूयो जगन्नाथ ! त्वामदः प्रार्थयामहे । त्वत्पादपङ्कजद्वन्द्वेऽस्मन्मनो भ्रमरायताम् ॥ २१७ ॥ एवं स्तुत्वा विरतेषु शक्र - केशव - सीरिषु । विदधे भगवान् धर्मस्वाम्येवं धर्मदेशनाम् ॥ २१८ ॥ चतुर्वर्गेऽग्रणीर्मोक्षो योगस्तस्य च कारणम् । ज्ञान-श्रद्धान- चारित्ररूपं रत्नत्रयं च सः ॥ २१९ ॥ तत्त्वानुगा मतिर्ज्ञानं सम्यक् श्रद्धा तु दर्शनम् । सर्वसावद्ययोगानां त्यागश्चारित्रमिष्यते ॥ २२० ॥ आत्मैव दर्शन - ज्ञान- चारित्राण्यथवा यतेः । येत् तदात्मक एवैष शरीरमधितिष्ठति ॥ २२९ ॥
आत्मानमात्मना वेत्ति मोहत्यागाद् य आत्मनि । तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् ॥ २२२ ॥ आत्माऽज्ञानभवं दुःखमात्मज्ञानेन हन्यते । तपसाऽप्यात्मविज्ञानहीनैश्छेत्तुं न शक्यते ॥ २२३ ॥ अयमात्मैव चिद्रूपः शरीरी कर्मयोगतः । ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यान्निरञ्जनः ॥ २२४ ॥ अयमात्मैव संसारः कषायेन्द्रियनिर्जितः । तमेव तेद्विजेतारं मोक्षमाहुर्मनीषिणः ॥ २२५ ॥
स्युः कषायाः क्रोध-मान- माया - लोभाः शरीरिणाम् । चतुर्विधास्ते प्रत्येकं भेदैः संज्वलनादिभिः ॥ २२६ ॥ पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्षं जैन्मानन्तानुबन्धकः ॥ २२७ ॥ वीतराग-यति-श्राद्ध-सम्यगदृष्टित्वघातकाः । ते देवत्व - मनुष्यत्व - तिर्यक्त्व - नरकप्रदाः ॥ २२८ ॥ तत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् । दुर्गतेर्वर्तनी क्रोधः क्रोधः शमसुखार्गला ॥ २२९ ॥
१ मोक्षस्य । २ योगः । ३ यत् यस्मात् कारणात् दर्शन-ज्ञान- चारित्रात्मक एवैष आत्मा ॥ ४ आत्मनोऽज्ञानभवम् । ५ कषायेन्द्रियजेतारं तमात्मानमेव मोक्षमाहुः । ६ जन्मपर्यन्तम् । ७ संज्वलनो वीतरागत्वघातकः प्रत्याख्यानश्च यतित्वघातक इत्याद्यनुक्रमेण । ८ संज्वलनो देवत्वप्रद इत्यादि । ९ मार्गः ।
REDEREREREDEREREREDEREREAY
चतुर्थं पर्व
पञ्चमः सर्गः
श्रीधर्मनाथजिनचरितम् |
श्रीधर्मनाथजिनस्य धर्मदेशना ।
।। १५६ ।।