________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १५५ ।।
REDUREREREREAGAGAUDERERERY
तत्र प्रविश्य कृत्वा च चैत्यवृक्षप्रदक्षिणाम् । नत्वा च तीर्थमध्यास्त पूर्वसिंहासनं प्रभुः ॥ २०३ ॥ रत्नसिंहासनस्थानि प्रतिबिम्बान्यथ प्रभोः । ताहंशि व्यन्तराश्चक्रुस्तिसृष्वन्यासु दिक्ष्वपि ॥ २०४ ॥ यथास्थानं प्रविश्यास्थात् संघोऽपि स्वामिपर्षदि । तिर्यञ्चो मध्यवप्रेऽस्थस्तृतीये वाहनानि तु ॥ २०५ ॥ उपेत्य शीघ्रं पुरुषसिंहायायुक्तपूरुषाः । स्वामिनं समवसृतमाख्यन्नुत्फुल्लचक्षुषः ॥ २०६ ॥ तेभ्यो द्वादश रूप्यस्य कोटीः सार्धा वितीर्य सः । आगात् समवसरणं सुदर्शनसमन्वितः ॥ २०७ ॥ प्रभुं प्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः । साग्रजोऽनुसहस्त्राक्षमुपाविदधोक्षजः ॥ २०८ ॥ भूयोऽपि स्वामिनं नत्वा शक्रशार्ङ्गिसुदर्शनाः । स्वामिभक्तावसंतुष्टा इति तुष्टुवुरुन्मुदः ॥ २०९ ॥ विजयस्व जगच्चक्षुश्चकोरान्दचन्द्रमः ! । मिथ्यात्वध्वान्तमार्तण्ड ! धर्मनाथ ! जगत्पते ! ॥ २१० ॥ चिरं व्यहार्षीश्छद्मस्थो गतेछद्मा तथाऽप्यसि । अनन्तदर्शनोऽपि त्वं दर्शनान्तरबाधकः ॥ २११ ॥ त्वद्देशनापयःपूरैः परितः प्लावितात्मनाम् । अह्नाय कर्ममालिन्यमपयाति शरीरिणाम् ॥ २१२ ॥ तथा न मेघच्छायासु तरुच्छायासु नापि वा । यथा शाम्यति संतापः पादमूले तव प्रभो ! ॥ २१३ ॥ इह त्वद्दर्शनालोकनिस्यन्दवपुषः प्रभो ! । पाञ्चालिकावदुत्कीर्णा इव भान्ति शरीरिणः ॥ २१४ ॥ पृथग्विरुद्धमप्येतदेकत्र मिलितं चिरात् । त्वत्प्रभावाज्जगबन्धो ! बन्धूभूतं जगत्त्रयम् ॥ २१५ ॥ त्रिखण्डभरतक्षेत्रमूलायतनदैवत ! । अनन्यशरणानस्मांस्त्रायस्व परमेश्वर ! ॥ २१६ ॥
१ सेवकाः । २ विष्णुः । ३ सहर्षाः । ४ जगतां चक्षुरेव चकोरस्तस्यानन्दे चन्द्रसमः ॥ ५ गतं छद्म कपटं यस्य सः । ६ शीघ्रम् ।
REREREREREREREREREREREDERY:
चतुर्थं पर्व
पञ्चमः
सर्गः
श्रीधर्म
नाथजिनचरितम् ।
प्रभोः
स्तुतिः ।
॥ १५५ ॥