________________
त्रिषष्टिशलाका
पुरुषचरिते
।। १५२ ।।
'REDERERERERERERERERERERERY:
दूतानां वाक्प्रपञ्चैकच्छेकानां त्वादृशां गिरा । निर्विषः फटयेवाहिः स भेषयति पार्थिवान् ॥ १६३ ॥ गच्छ माऽस्मद्वचो गोप्यं शंस स्वस्वामिनेऽखिलम् । शत्रुर्भावीति सोऽस्माभिर्वध्यकोटौ कृतोऽस्त्यलम् ॥ १६४ ॥ एवमुक्तः ससंरम्भमुत्थाय रभसेन सः । दूतो गत्वा निशुम्भाय सर्वमाख्यद् यथातथम् ॥ १६५ ॥ तदाकर्ण्य वचः क्रुद्धो निशुभ्भोऽरिनिशुम्भनः । सेनाभिश्छादयन्नुर्वी प्रतस्थेऽश्वपुरं प्रति ॥ १६६ ॥ निशुम्भं प्रस्थितं श्रुत्वा विष्णुनाऽप्यरिजिष्णुना । सद्यः सर्वाभिसारेण प्रतस्थे साग्रजन्मना ॥ १६७ ॥ निशुम्भ- पुरुषसिंहौ मिथः प्रमथनोद्यतौ । संगच्छेते स्मार्धमार्गे मत्ताविव वनद्विपौ ॥ १६८ ॥
स्म द्वयोः सैन्याः क्षोभयन्तोऽपि रोदसी । क्ष्वेडा - कार्मुकटङ्कार-करास्फालनशब्दितैः ॥ १६९ ॥ अजनिष्ट क्षणेनापि क्षयकाल इव क्षयः । अक्षौहिण्योरुभयोरप्यात्मरक्षानपेक्षयोः ॥ १७० ॥ अन्वीयमानो हलिना पवनेनेव पावकः । पाञ्चजन्यमपूरिष्ट शार्ङ्गधन्वा रथस्थितः ॥ १७१ ॥ महता तन्निनादेन परसैन्यानि सर्वतः । पतत्कुलिशनिर्घोषेणेव घोरेण चुक्षुभुः ॥ १७२ ॥ तिष्ठ तिष्ठ भटम्मन्येत्युच्चकैराक्षिपन्नथ । रथी प्रतिहरिर्योद्धुमुपतस्थे हरिं प्रति ॥ १७३ ॥ आस्फालयामासतुस्तौ हरि - प्रतिहरी धनुः । कोपान्नमन्निजनिजभ्रकुटीभङ्गभीषणम् ॥ १७४ ॥ अवर्षतामुभौ बाणैर्धारासारैरिवाम्बुदौ । सिंहनादैस्त्रासयन्तौ मृगीरिव नभश्वरीः ॥ १७५ ॥
फणया । ३ वध्यगणनायाम् । ४ क्ष्वेडा सिंहशब्दः । ५ अग्निः । ६ कुलिशं वज्रम् । ७ आत्मानं
१ छेकश्चतुरः । २ भटं मन्यमानः । ८ विद्याधरीः ।
'DEDEDEDEREREREREREREDERERES
चतुर्थं पर्व
पञ्चमः सर्गः
श्रीधर्म
नाथजिनचरितम् ।
पुरुषसिंह
सुदर्शननिशुम्भचरितम् ।
।। १५२ ॥