________________
त्रिषष्टिशलाकापुरुषचरिते ॥१५१॥
चतुर्थं पर्व पञ्चमः
सर्गः श्रीधर्मनाथजिनचरितम् ।
28888888888888888888888888
लघीयांसौ गरीयांसौ विधातव्यौ मया युवाम् । चिरं कृताया वां पित्रा भक्तेरानृण्यमिच्छता ॥१५०॥ इत्युक्तयोस्तयोः क्रोधोऽभूच्छोकश्च न्यवर्तत । रसान्तरेण हि रसो बाध्यते बलवानपि ॥१५१॥ भ्रुवमुन्नमयन्नेकां किञ्चित् साचीकृतालिकः । अथाबभाषे पुरुषसिंहः सिंह इव क्रुधा ॥१५२ ॥ इक्ष्वाकुकुलचन्द्रस्य तस्य विश्वोपकारिणः । अस्मत्पितुरस्तमये कस्कोऽभून्न शुचां पदम् ? ॥१५३ ॥ राजानोऽन्येऽपि शशचुनिशुम्भोऽपि शशोच यत् । तेन पैशून्यमस्य स्याद् दद्याच्चेन्नेति वाचिकम् ॥१५४॥ बालकस्यापि सिंहस्य को हि देशं प्रयच्छति । प्रवर्धयति तं को वा कुतस्तस्य पराभवः ? ॥ १५५ ॥ इदानीमावयोरेवं स जल्पन् किं न लज्जते । आप्तत्वव्याजतोऽस्माकं न्यक्कारी स द्विषन् खलु ॥ १५६ ॥ सोऽस्तु मित्रममित्रो वोदासीनो वा तव प्रभुः । निरपेक्षा वयं तस्य दोरपेक्षैव दोष्मताम् ॥ १५७ ॥ दूतोऽप्यूचे पितृतुल्यममित्रीकुर्वतोऽद्य तम् । सुव्यक्तं बालकत्वं ते शैवे ! शिवमनिच्छतः ॥१५८ ॥ त्वमद्याप्यनभिज्ञोऽसि राजनीतेः कुमारक!। उत्पादयस्यरिं तत् तं कुक्षिमामृज्य शूलवत् ॥१५९ ॥ त्वदुक्तं स्वामिने नैतद् वक्ष्ये तत् कुरु मद्वचः । त्वत्प्रसादात् क्षेममस्तु चिरं ते सह बन्धुना ॥१६० ॥ अन्यथा तु द्विषन भावी स एव न चिरात् तव । तस्मिन् रुष्ट कृतान्ते च जीवितस्यापि संशयः ॥१६१॥ एवं तदुक्त्याऽभ्यधिकमुद्यत्क्रोधोऽभ्यधाद्धरिः । त्वमेव दूत ! दूतोऽसि निरपेक्षः स्वजीविते ॥१६२॥
१ वक्रीकृतभालः । २ यदि स ईदृशं वाचिकं न दद्यात् तास्य शुचो ज्ञापकं स्यात् तत्तु नास्तीति भावः । ३ तिरस्कर्ता । ४ भुजापेक्षा । ५ हे शिवपुत्र ! ६ मद्वचनानुसरणरूपात् त्वत्प्रसादादित्यर्थः । ७ यमरूपे ।
282828282828282828282828286
पुरुषसिंहसुदर्शननिशुम्भचरितम्।
॥ १५१॥