________________
त्रिषष्टिशलाकापुरुषचरिते ॥१५०॥
चतुर्थं पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम् ।
1288888888888888888888888885
अथ सिक्तः पयस्कुम्भैर्लब्धसंज्ञो जनार्दनः । हा तात ! तात ! तातेति क्रन्दन्नुत्तिष्ठति स्म च ॥१३५॥ न किं संतप्यते तेऽङ्गं गुणः कस्यौषधस्य वा । प्रत्ययः कस्य वैद्यस्य सुखनिद्राऽथवाऽद्य किम् ?॥१३६ ॥ ब्रूहि तात ! प्रसादं मे कृत्वेति स्नेहमोहितः । प्रललाप क्षणं विष्णुर्विललाप च तत्क्षणम् ॥ १३७ ॥ शार्ङ्गभृद् धैर्यमादाय गोत्रवृद्धैः प्रबोधितः । अग्नौ पित्रङ्गसंस्कारं चकारागुरुचन्दनैः ॥ १३८ ॥ विधाय च निवापादि स्वपर्षदि निषद्य च । बलाय प्राहिणोल्लेखं पितृव्यापत्तिसूचकम् ॥१३९ ॥ तं प्रान्तभूपतिं दृप्तं साधयित्वा बलोऽपि हि । दुःखार्तस्तेन लेखेन त्वरमाणः समाययौ ॥ १४०॥ अन्योऽन्यकण्ठलग्नौ तौ मुक्तकण्ठप्ररोदिनौ । बलदेव-वासुदेवौ रोदयामासतुः सभाम् ॥१४१॥ बोध्यमानावाप्तजनैः कथञ्चिद् धैर्यमापतुः । जहतुश्च पितुः स्नेहं मन्दं मन्दमुभावपि ॥१४२ ॥ तिष्ठन्तौ विचरन्तौ च जल्पन्तौ मौनसंस्थितौ । दृशोरिवाग्रे पितरं तौ ध्येयवदपश्यताम् ॥ १४३ ॥ तावेवं यावदासाते पितृशोकसमाकुलौ । तावदागात् तत्र दूतो निशुम्भस्यार्धचक्रिणः ॥१४४ ॥ द्वा:स्थेन कथितः पूर्वं प्रविश्य च तदाज्ञया । बलदेव-वासुदेवौ स नत्वैवमभाषत ॥१४५ ॥ श्रुत्वा लोकाच्छिवराजं धर्मराजपथस्थितम् । दधार शोकमस्तोकं निशुम्भः सुप्रभुः स वः ॥१४६ ॥ युष्मत्पितुः स्मरन् भक्तिं स कृतज्ञशिरोमणिः । युष्मत्पार्थे प्राहिणोन्मामुपदिश्येति वाचिकम् ॥१४७ ॥ अद्यापि हि युवां बालौ द्विषां परिभवास्पदम् । पदं च युवयोः पित्र्यं महदेतन्मयाऽर्पितम् ॥१४८ ॥ कुमारौ मामुपेत्येह तिष्ठतं निरुपद्रवौ । नदीमध्यस्थितानां हि किं करोति दवानलः? ॥१४९॥
१ उच्चैःस्वरम् । २ यमराजमार्गस्थितं मृतमित्यर्थः । ३ संदेशम् ।
282828282828282828282828282
पुरुषसिंहसुदर्शननिशुम्भचरितम्।
॥ १५०॥