________________
चतुर्थं पर्व
पञ्चमः सर्गः
त्रिषष्टिशलाकापुरुषचरिते ।।१४९॥
श्रीधर्मनाथजिनचरितम् ।
282828282828282828282828282
नालं क्षणमपि श्रोतुं विधवेत्यक्षराण्यहम् । कौसुम्भधारिणी यास्याम्यग्रतस्त्वत्पितुस्ततः ॥१२१॥ कृतार्थं मेऽभवज्जन्म पत्या शिवमहीभुजा । पुत्र ! त्वया च पुत्रेण पञ्चमेनार्धचक्रिणा ॥१२२॥ पत्युर्विपत्तौ यास्यन्ति मत्प्राणाः स्वयमेव हि । त्यक्ष्यामि तान् प्रविश्याग्नौ मा भून्मे हीनसत्त्वता ॥१२३ ॥ तत्क्षत्रियकुलाचारमाचरन्त्या ममाधुना । मा स्म भूरन्तरायस्त्वं वत्स ! वात्सल्यतोऽपि हि ॥१२४ ॥ समं सुदर्शनेन त्वं पुत्र ! नन्द ममाशिषा । पत्युरग्रे प्रयाम्येषा कृष्णवत्Èकवर्त्मना ॥१२५ ॥ अन्तिमां प्रार्थनां तेऽद्य कुमारैनां करोम्यहम् । निषेधकं विधेरस्य त्वया वाच्यं न किञ्चन ॥१२६ ॥ एवमुक्त्वा तु सा स्वामिविपच्छ्रवणकातरा । परलोकपुरद्वारं प्रवेष्टुमनलं ययौ ॥ १२७॥ दुःस्वानुबन्धिभिर्दुःखैः श्लथाङ्गो वीवधैरिव । समेऽपि प्रस्खलत्पादः पितुः पार्थं ययौ हरिः ॥१२८ ॥ स्मरन् स्वां मातरं पश्यंस्तथा पितरमातुरम् । प्रतीकारासहो विष्णुः क्लीबमान्यपतद् भुवि ॥१२९ ॥ राजा दाहज्वरार्तोऽपि बभाषे धैर्यमाश्रयन् । किमेतद् वत्स ! कातर्यं स्वकुलानुचितं तव ॥१३०॥ इयं हि त्वद्भुजाधारा वत्स ! देवी वसुंधरा । अधैर्यानिपतन्नस्यां कथं नाम न लज्जसे? ॥१३१॥ त्वय्युच्चैः पुरुषसिंह इत्याख्याकारिणो मम । अज्ञानकारितां मा दास्त्वमेवं धैर्यमुत्सृजन् ॥१३२॥ एवं शाणिमाश्वास्य शिवराजः शिवाशयः । कालधर्मं ययौ सायं कः कालं जेतुमीश्वरः ॥१३३ ॥ श्रुत्वा च मूच्छितो विष्णुः पपात धरणीतले । महाद्रुमो वात्ययेव वातेनेव च वातकी ॥१३४॥
१ कृष्णवा वह्निः । २ मरणस्य । ३ भारैः । ४ समप्रदेशेऽपि । ५ रोगपीडितम् । ६ रोगोपायासमर्थः । ७ भीरुत्वम् । ८ झञ्झावातेनेव । ९ वातरोगी पुमान् ।
828282828282828282828282828/
पुरुषसिंहसुदर्शननिशुम्भचरितम्।
॥१४९ ॥